SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यथा उछवासपरिमाणं यथोक्तरूपमवधारयति / तत उच्वासपरिमाणावधारणात् उवासनिश्वासपरिमाणावधारणं तस्मात्स्तोकस्य स्तोकान्मुहर्तस्य मुहतरर्धपौरुष्याभ्यां पौरुष्याः पौरुषीमिर्दिनानामुपलक्षण मेतत् / रात्रिणां च दिनरात्रीणां च / वाऽहोरात्राणामेवं दिनरात्रिभ्यां मुहूर्तार्द्धात् पौरुषी दिनानि अहोरात्रांश्च काले कालविषये जानाति / उक्तं चजइवियसेवण्णादी सनाममिव परिचियं सुयं तस्स / कालपरिमाणहेउं तहावि खलु तज्जयं कुणति॥ उस्सासातो पाणूततोयथोवो ततो वियमुहत्तो। मुहुत्तेहिं पोरिसी तो जाणंति निसा य दिवसा य // उक्ता सूत्रभावना / साम्प्रतमेकत्वभावनामाह-- अण्णो देहातो अहं, नाणत्तं जस्स एवमुवलद्धं / सो किंचि पाहिरिक्कं न कुणति देहस्स भंगेवि॥ अहं देहादन्य इत्येवमेकत्वभावनया यस्य साधोः परिकर्मणां कुर्वतः शरीरादात्मनि नानात्वमुपलब्धः सदिव्यादिषु उपसर्गवेलाया देहस्य भङ्गेऽपि विनाशेऽपि न किश्चिदपि अहिरिक्कमिति उत्रासं न करोति / गता एकत्वभावना / सम्पत्ति बलभावनामाहएमेवय देहबलं अभिक्खमासेवणाई त होइ / लंक्खक मल्ले उवमा, आसकिसोरे य जोग्गविए॥ ___एवमेव अनेनैव प्रकारेण बलभावनयापि देहस्तथा भावयितव्यो, यथा देहस्य करणीयेषु योगेषु बलं न हानिमुपगच्छति, ननु तपसा क्रियमाणेन नियमतोदेहबलमपगच्छति, ततः कथमुच्यते बलभावनया तथा देहोभावयितव्यो यथा देहवलं न हानिमुपयातीति सत्यमेतत् / किन्तु देहबलं धृतिवलसूचनार्थ ततोऽयं भावार्थो बलभावनया तथा यतेत यथा देहापचयेऽपि For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy