SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyarmandie साधुरपि यदि चतुर्थ पष्ठमष्टमादि वा त्रीन् वारान् कृत्वा क्लाम याति / ततश्चतुर्थादिकं प्रत्येकं तावदभ्यस्यति यावत्र क्लाम्यतीति तथाचेमामेवसिंहदृष्टान्तयोजनामाहजह सीहो तह साहू गिरिनदी सीहो तवोधणो साहू / वेयावञ्चकिलंतो अभिन्नरोमो य श्रावासे // ___ यथा सामान्येन गुहायां वर्तमानः सिंहस्तथा गच्छे वर्तमानः साधुः यथा च गिरिनदीमुत्तर अभ्यासकरणे प्रवृत्तः सिंहस्तथा तपोधनस्तपः करणाभ्यासप्रवृत्तः साधुः एवं च चतुर्थ षष्ठाष्टमादितपः कुर्वन् आत्मवैयावृत्यकरो ज्ञातव्यः / कस्मादिति चेदुच्यते-यस्मात्स तपसा पूर्वसंचितकर्ममलं शोधयन्नात्मन एवोपकारे वर्तते / ततः स आत्मवैयावृत्यकरः / एवमात्मनो वैयावृत्ये अक्लान्तः सन् आवासेति अवश्यकरणीयेषु योगेषु भिन्नरोमा भवति / रोममात्रमपि न क्लमं याति / गतं तपो भावनाद्वारमधुना सत्व भावनाद्वारमाहपढमाउवस्सयंमि बिइयाबाहिं तइया चउक्कंमि / सुराणहरम्मि चउत्थी पंचमिया तह मसाणंमि // प्रथमा सत्वभावना उपाश्रये। कथमिति चेत् ? उपाश्रयस्यान्तर्निशि प्रतिमायां प्रतिदिवसमवतिष्ठते / स च तथा च तिष्ठमानो मूषकमार्जारादिस्पर्शनदर्शनादि भयं तावजयति यावत्तत्स्पर्शनादिभावेपि रोमोझेदमात्रकरमपि भयं नोपजायते / उक्तं चछक्कस्स वक्खइयस्तव मसियमादीहि वा निसिचरेहिं।जह नवि जायइ रोमुब्भेयो तहवायसोधीरो॥ द्वितीया सत्वभावना उपाश्रयस्य बहिरुपरि च्छो / तत्र हि प्रतिमा प्रतिपन्नस्य बहुतरं मार्जारादि भयं संभवति / तत For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy