________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। // 10 // एकत्वेन बलेन च, तत्र तपोभावनाप्रतिपादनार्थमाहचउभत्तेणजतिउं छठेहिं अट्टमेहिं दसमेहिं बारसचउदसमेहिं य, धीरो धीइमं तुल्ले अप्पा // प्रथमतश्चतुर्थेन यतते किमुक्तं भवति ? प्रथमतो नियमेन त्रीन् वारान् चतुर्थं करोति / तत्र यदि त्रिभिरपि कृते चतुर्थे | क्लाम्यति / ततस्तावदभ्यस्यति चतुर्थे यावच्चतुर्थ कुर्वन् मनागपि न क्लममुपयाति / एवं चतुर्थेन यतित्वा त्रीन् वारान् षष्ठं करोति, तत्रापि यदि वारत्रयं कृते षष्ठे क्लममुपैति ततश्च चतुर्थवत् पष्ठेऽप्यभ्यासं तावत्करोति यावत्तस्यापि करणे ग्लानिर्नोपपद्यते / एवं षष्ठैरात्मानं भावयित्वा अष्टमै र्भावयति, तदनन्तरं दशमैः / ततो द्वादशैरुपलक्षणमेतत् / ततो अनेन प्रकारेण षोडशादिभिश्च धीरो धृतिमान् आत्मानं तुलयति / परिकर्मयति, स च तावत्तुलयति, यावत्षण्मासान सोपसर्गेऽपि न क्षुधाहानि उपगच्छति / उक्तं च जावणब्भत्थो पोरिति माइ तवोउतंति गुणं / कुणइछहा विजयठा गिरिनदीसिंहेण दिÉतो॥ एकेकं ताव तवं करेति जहा तेण कीरमाणेण / हाणी न होइ जइयावि होज छम्मास उवसग्गो॥ / तत्र यदुक्तं चतुर्थादिषु तावदस्यासं करोति यावन्न क्लाम्यति / तत्र गिरिनदीसिंहदृष्टान्तस्तथाहि-यथा सिंहो गिरिनदी तरन् परतटे चिह्नं करोति, यथा अमुकप्रदेशे वृक्षाद्युपलक्षिते मया गन्तव्यमिति संचरन् तीक्ष्णेनोदकवेगेनापहियते / ततः प्रत्यावृत्त्योत्तरति / एवं प्रमाणतस्तावत्करणं करोति यावदभग्नः सन् सकलामपि गिरिनदी शीघ्रं तरति / एवं // 10 // For Private and Personal Use Only