________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसुत्रस्य पीठिका-1 नंतरः।* ||8 || अस्या व्याख्यानं कल्पे सविस्तरमुक्तमत्र तु लेशतोऽर्थमात्रमभिधीयते / प्रथमतस्तावत्प्रवज्या भवति, सा च द्विधा धर्मश्रवणतोऽभिसमागमतश्च / तत्र या प्राचार्यादिभ्यो धर्मदेशनामाकर्ण्य संसाराद्विरज्य प्रतिपद्यते सा धर्मश्रवणत: / या पुनऑतिस्मरणादिना सा अभिसमागमतः, प्रव्रजितस्य शिक्षापदं भवति / शिक्षा च द्विधा-ग्रहणशिक्षा, आसेवनाशिक्षा च। तत्र ग्रहणशिक्षा सूत्रावगाहनलक्षणा / आसेवनाशिक्षा सामाचार्यभ्यसनं / शिक्षापदमन्तरं चार्थग्रहणंभवति, अर्थग्रहणकरणानन्तरं चानियतो वासो नानादेशपरिभ्रमणं कर्तव्यम् / तदनन्तरेण नानादेशीयशब्दाकौशलेन नानादेशीभाषात्मकस्य सूत्रस्य परिस्फुटरूपार्थनिर्णयकारित्वानुपपत्तेः, तदनन्तरं वाचनाप्रदानादिना गच्छस्य निष्पत्ति निष्पादनं कर्तव्यम् / तदनन्तरं विहारोऽभ्युद्यतो विहारो जिनकल्पादिप्रतिपत्तिलक्षणः करणीयः / तस्य च विहारस्य या सामाचारी सा वक्तव्या / तथा स्थितिर्जिनकल्पादीनां क्षेत्रकालादिना क्षेत्रकालादिद्वारेषु चिन्तनीया तत्र प्रव्रज्या शिक्षापदमर्थग्रहणमनियतो वासः निष्पत्तिविहारः / सामाचारीति सप्त द्वाराणि प्रतिमायामुपयोगीनि तत्रापि प्रव्रज्या शिक्षापदमर्थग्रहणं चेति त्रीणि द्वाराणि प्रतिपत्तुकामस्य नियमतो भवन्ति, शेषाणां भजना। तथा चाहपवजा सिक्खापयमत्थगहणं च सेसए भयणा / सामायारीविसेसो नवरं वुत्तो उ पडिमाए॥ प्रव्रज्या प्रवर्जन, शिक्षापदं ग्रहणं सेवनारूपं शिक्षाद्विकं अर्थग्रहणमर्थपरिज्ञानमित्येतत् त्रयं प्रतिमा प्रतिपित्सोनियमेन भवति / शेषके अनियतवासनिष्पत्तिलक्षणद्वारद्विके भजना विकल्पनाय आचार्यपदार्हस्तस्य नियमादिदं द्वारद्वयमास्त, शेषस्य तु नास्तीत्यर्थः / विहारः पुनः प्रतिमाप्रतिपचिलक्षणोऽस्त्येव सामाचार्या अपि जिनकल्पिकसामाचारीतो विशेषोऽस्ति // 9 // For Private and Personal Use Only