________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मारिय ममारिएहिं तं तीरावेति छावएहिं तु / वणमहिसहत्थिवग्घाण पच्चलो जाव सो जातो॥ वनमहिषादीनां शावकारितरमारितैर्वा तावत्तमात्मीयशावं तीरयति समर्थीकरोति यावतेषां वनमहिषहस्तिव्याघ्राणां स्वयमेव व्यापादने प्रत्यल.समर्थो जातो भवति / कृता सिंहदृष्टान्तभावना / / साम्प्रतमनयोरेव निदर्शनयोरुपनयनार्थमिदमाहअकयपरिकम्ममसहं दुविहा सिक्खा अकोवियमवत्तं / पडिवक्खेण उवमिमो.सउणिग सीहादिकावेहिं / न कृतानि परिकर्माणि वक्ष्यमाणानि येन स तथा तमकृतपरिकर्माणमकृतपरिकर्मत्वादेवासहमेकाकिविहारप्रतिमा प्रतिपत्तुमसमर्थ, तथा द्विविधायां शिक्षायां ग्रहणासेवनरूपायामपि कोविदमनभिज्ञ तथाश्रुतेन वयसा चा प्राप्तयोग्यताकं पडिवक्खेणंति ये प्राक्शकुनिपोतसिंहशावकानां संजातपक्षत्वादयो गुणा उक्तास्तेषां प्रतिपक्षण प्रतिकूल्येनासंजातपक्षत्वादिना विशिष्टाः शकुनिसिंहादिशावका आदिशब्दात् व्याघ्रादिपरिग्रहस्तैरुपमयामस्तथाहि-यथा शकुनिपोतोऽसंजातपक्षो यद्यावासाद्विनिर्गत्य स्वच्छंदसा परिभ्रमति, ततः स काकढंकादिभिर्विनाशमाविशति, / सिंहपोतकोऽपि यदि क्षीराहारो गुहातो विनिर्गत्य वने स्वेच्छया विहरति ततःसोऽपि वनमहिषव्याघ्रादिभिरुपहन्यते / एवं साधुरप्यकृतपरिकर्मा द्विविधशिक्षायामकोविदः श्रुतेन वयसाचाप्राप्तयोग्यताको यदि गच्छादेकाकिविहारप्रतिमाप्रतिपत्तये विनिर्गच्छति, ततः स नियमादात्मविराधनां संयमविराधनां च प्रामोति / तदेवं घरसउणिसीहत्ति व्याख्यातम् / सम्प्रति प्रव्रजितशिचादीनि द्वाराणि वक्तव्यानि तत्संग्राहिका चेयं गाथापव्वजासिक्खावयमत्थयग्गहणं च अणियतो वासो। निप्पत्तीय विहारो, सामायारी ठिती चेव // For Private and Personal Use Only