________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिकानंतरः। तृतीयो | विभाग। // 18 // द्वौ योधौ दृष्टान्तत्वेनोपन्यसनीयौ / ततः स्थिरीकरणनिमित्तं तस्योपसर्गव्यावर्णनायां सूत्रार्थकरणव्यवस्थितैऽकाक्षरूपं क्षप- | कद्विकज्ञातं वक्तव्यम् / तत एवं कृतपरिकर्मा सन् गच्छारामात् सर्वर्तुकपुष्पफलोपगारामरूपात् गच्छाद्विनिर्गच्छति / एष द्वारगाथा संक्षेपार्थः / साम्प्रतमेनामेवविवरीषुः प्रथमतो गृहशकुनिदृष्टान्तं भावयति वासगगयं तु पोसति चंचूपूरेहिं सउणिया सावं / वारेइ तं उडुतं जाव समत्थं न जायं तु // शकुनिका पक्षिणी आत्मीयं शावं, 'वासगगयं' ति प्राकृतत्वादाद्याकारस्य लोप आवासो नीडमावास एवावासकस्तद्गतं / तुरेवकारार्थः / आवासगगतमेवशावं चञ्चूपूरैश्चञ्चुभरणैः पुष्णाति पुष्टीकरोति / यदि कथमाप्यसञ्जातपक्षोपि वालचापलेनावासादहिर्जिगमिषुरुड्डीयते, ततस्तमुड्डीयमानं वारयति प्रतिषेधयति / सा चैवं तावत्करोति यावत्समर्थो न जायते / गाथायां तु नपुंसकनिर्देशः प्राकृतत्वात् / समर्थस्तु जातः सन्न प्रतिषिध्यते / ततो निरुपद्रवं स्वेच्छया विहरति / भावितः शकुनि दृष्टान्तः / सम्प्रति सिंहदृष्टान्तं भावयतिएमेव वणे सीही सा रक्खइ छावपोयगं गहने / खीरमिउ पिसिय चव्विय, जा खायइ अट्रियाइं पि॥ __एवमेव शकुनिकागतेनैव प्रकारेण वने / किं विशिष्टे ? इत्याह-गहने अतिशयेन गुहिले स्थिता सती सिंही शावपोतकं | शाव एवातिलघुत्वात् पोतः पोतकः शावपोतकस्तं रक्षयति व्याघ्रादिभ्यस्तथा क्षीरेण स्तन्येन मृदुचर्वितपिशितेन च तावदात्मीय शावपोतकं पुष्णाति यावदस्थीन्यपि खादति / For Private and Personal Use Only