SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मार्ग एव समाप्तिमुपयातीति / असमर्थः पुनर्निक्षिपति यदि वा महत्प्रयोजनमुपस्थितं गरीयांश्चाध्वा एतस्य च प्रयोजनस्यायमेव गुणगरीयस्त्वात् कर्ता / ततः सम्यक् प्रवचनभक्तोऽयं परमदुष्करकारीति विचिन्त्य सूरयः सर्वमपि तस्य प्रसादतो मुश्चति / एवं सर्वस्य वहन निक्षेपझोपा एमवेत्यादि, एवमेव अनेनैव प्रकारेण प्रतिनिवृत्तेः प्रत्यागतस्य देशस्य सर्वस्य वा वाहनाझोषौ वेदितव्यौ / तद्यथा-यदि गच्छता देशो निक्षिप्तस्ततः स देशः प्रत्यागतेनोह्यते। अथ समस्तं ततः सर्वमिति / यदि वा अहो दुष्करमिदं कार्यमनेन कृतमिति परितुष्टाः सूरयो निक्षिप्तं देशं सर्व वा मुञ्चति / एवं प्रत्यागतस्य देशसर्ववाहनझोषौ / ___अथ कथं देशस्य वा प्रसादतो झोपकरणं, न खलु प्रसादतः पापमुपयातीति तत आहवेयावच्चकरणं होति अणुग्घातिए वि उग्घायं / सेसाण अणुग्घाया अप्पच्छंदो क्वेताणं // 140 // यथा अनुदातिते परिहारतपसि प्राप्ते वैयावृत्यकराणां सङ्घादिवैयावृत्यप्रवृत्तानामुद्घातिपरिहारतपो भवति / दानयोग्यवैयावृत्यालम्बनेन तेषामवलम्बितत्वात् / एवं कदाचित् देशकालाद्यपेक्षया देशस्य सर्वस्य वा झोषोऽपि क्रियते। तथा तीर्थकरानु ज्ञाप्रवृत्तेः। तथा चोक्तम्-तित्थगरेहिं भणियं वेयावच्चकराणां झोसो भवति, अणुद्घातितं उग्धाइयं कन्जइ इति शेषाणां वैयावृत्या* लम्बनरहितानामुद्घातित प्राप्तेऽनुद्घातितमेव दीयते, / तथाये वैयावृत्यालम्बनरहिता आत्मच्छंदसा निक्षिपन्तो यदि उद्घातितं वहन्त आसीरन् / तदानुद्घातितं दीयते अथ अनुद्घातितं निक्षिप्तवन्तस्तत उपरितनं तेषां प्रायश्चित्तमिति / (सूत्रम् जे भिक्खू गणाओ अवकम्म एकल्लविहारपडिमं उवसंपन्जिताणं विहरित्तए पुणो आलोएजा पुणोपडिक्कमेजा |पुणो छेयपरिहारस्स उबट्ठावेजा // 26 // एवं गणावच्छेइए, एवं आयरिय उवज्झाए // 27 // ) For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy