________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विजानिमित्त उत्तर कहणे अप्पाहणाय कहियायो। अतिसंभम तुरिय विणिग्गयाण दोगहपि विस्सरियं॥ विद्यानां प्रति विद्या प्रतिपक्षभूतानां निमित्तानामनेकप्रकाराणामुत्तराणां प्रतिवादिविषयाणां यथा यदि स वादी एवं यात ततो भवानित्थं वदेदित्येवमादिरूपाणां कथने तथा अप्पाहणाय संदेशकाः बहुका कथिताः। तत आचार्यस्यातिसंभ्रमेण इतरस्यापि चातिसंभ्रमादेव त्वरितविनिर्गतस्य द्वयोरपि विस्मृतं, यथा परिहारतपो निक्षेपणीयमिति / तत्र यदि आचार्याः स्मरेयुः स वा स्मारयति तदा निक्षिप्य गच्छति / अथ द्वयोरपि विस्मृतं परिहारतपो निक्षेपणीयमिति / अथ द्वयोरपि विस्मृतं तदा निर्विशमानक एव याति / यदा तु पूर्व स स्मृतवान् न पश्चात्तदा का वाःत्यत आहपुव्वं सो सरिऊण संपत्थिए विजमादि कज्जेहिं / जस्स पुणो विस्सरियं निव्विसमाणे तहिंपि वए // 136 // पूर्व स परिहारिकः स्मृत्वा परिहारतपो निक्षिप्य मया गन्तव्यमिति विचिन्त्य संप्रस्थिते सम्प्रस्थानकाले विद्यादिकार्यैर्विद्याग्रहणादिकार्याकुलीभूततया यस्य पूनविस्मृतं यो विस्मृतं गतवान् तत्रापि पूर्व स्मरणे पश्चाद स्मरणे निर्विशमानो व्रजेत् / ___सम्प्रति यदुक्तं देशं वा सर्व वा आसाद्येति तद्व्याख्यानयतिदेसंवा वि वहेज्जा देसंच ठवेज अहव झोसिजा। सव्वं वा विवहेजा सव्वं ठविज सव्वं व झोसिज्जा॥१३७॥ त्रिष्वपि सूत्रेषु परस्परसमुच्चयार्थाः / तथा त्रिष्वपि सूत्रेषु देशंवा वाहयेदपि, देशंवा स्थापयेदपि, अथवा देशझोषयेदपि, सर्व वाहयेदपि सर्व वा स्थापयेदपि सर्व वा झोषयेदपि / अत्र वाशब्दाद्देशं वेत्याद्यपेक्षया विकल्पार्थो / For Private and Personal Use Only