SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभाग श्री व्यवहारसूत्रस्य पीठिकानंतरः। // 8 // परं निष्कारणे, यदि पुनरशठः सन् एवं चिन्तयति न शक्तः क्षामतया परवादिनं जेतुमिदानी तीरितः कार्यः समाप्तकार्यः। पुनर्भूयो वहेयमिति ततस्तस्मिन् निक्षेपणं युज्यते एव अदुष्टमेव पुष्टालम्बनत्वात् // __सूत्रं--परिहारकप्पठिए भिक्खुबहिया थेराणं वेयावडियाए गच्छेज्जा / थेराय से सरिजा वा नो सरिजा वा नो कप्पइ त्ति // से निविसमाणस्सेत्यादि एतदपि सूत्रं तथैव, नवरमेतावान् विशेषः / थेराय से सरिजा वा नो सरिजा नो कप्पइ से | निव्विसमाणस्सेति / अस्यायमर्थः-स्थविरा से तस्य परिहारकल्पं सरेयुर्यदि वा व्याक्षेपान सरेयुः / वाशब्दादुभावपि न स्मरेयातां तथापि यदि निविंशमानको गच्छति ततः से तस्य निर्विशमानकस्य एकरत्रिक्या प्रतिमया एकरात्रिकेण वा साभिग्रहेण क्वचिदपि प्रतिबन्धमन्तरेण गच्छत इत्यादि / तथा चाहसरमाणे जो उगमो अस्सरमाणेवि होइ एमेव। एमेव मीसगम्मि वि देसं सव्वं च आसज्जा // 13 // ___ इह त्रीणि सूत्राणि, तद्यथा--प्रथमं स्मरणसूत्र, द्वितीयमस्मरणसूत्रं, तृतीयं मिश्रकसूत्रं स्मरणास्मरणसूत्रमित्यर्थः / तत्र य एव गमः स्मरणे स्मरणसूत्रे उक्तः एमेव अनेनैव प्रकारेण प्रथमसूत्रप्रकारेणेत्यर्थः / अस्मरणे अस्मरणसूत्रे भवति गमः / एवमेव अनेनैव प्रकारेण मिश्रकसूत्रेऽपि तत्र सूत्रत्रयेऽपि वहनं निक्षेपणं झोषो वा देशं सर्व वा आसाद्य प्रतीत्य द्रष्टव्यः। तत्र द्वयोरपि विस्मरणं सूचितं / / तत्र कारणमाह // 5 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy