SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyarmandir पश्चार्ध विद्यानां निमित्तानां प्रत्युत्तराणां च कथनतो बहुविधसन्देशकथनतो वा आचार्यों न सरति / ततस्तस्मिन्न स्मरणे सति निर्विशमानक एव गच्छेत् / गत्वा च यत्र गन्तव्यं तत्र यत्करोति तदाहतत्थ गतोविय संतो पुरिसं थामंच नाउतो ठवणं / साहीणमसाहीणे गुरुम्मि ठवणा असहणे उ॥१३२॥ तत्र गतोऽपि च सन्पुरुष प्रतिवादिलक्षणं प्रचण्डं वा स्थामप्राणमात्मनो ज्ञात्वा तदनन्तरं यदि समर्थमात्मानं संभावयति, तदा न निक्षिपति, अथाशक्तिः संभाव्यते ततः स्थापनानिक्षेपणं परिहारतपसः कर्तव्यम् / किमुक्तं भवति ? दुर्जयः खलु प्रतिवादी न यथाकथश्चन जेतुं शक्यते अहं च क्षामतया बहुविधमुत्तरं दातुमशक्तो मतिमोहो वा तदानीं मम क्षामतया भवेत् इति यदि संभावयति, तर्हि निक्षिपति, / अथ कथं स निक्षिपतीत्यत आह-साहीणेत्यादि स्वाधीने सन्निहिते, अस्वाधिने असन्निहिते गुरा व सहस्य स्थापना परिहारतपसो निक्षेपणं भवति / इयमत्र भावना-यद्याचार्य: सन्निहितो भवति ततः स एव तं निक्षेपयति / अथ नास्ति सनिहितः ततो न शक्तः क्षामत्वेन परिवादिनं जेतुमित्यालम्बनतः स्वयमेव निक्षिपति / अत्र पर आह-" ननु यदि स्वयं निक्षिपति ततः स आत्मच्छंदसा निक्षिपन् यदि उद्घातितं वहति ततो अनुद्घातितं प्रामोति, / अथानुद्घातितं ततः परतरं स्थानमाप्नोति" इति / सूरिराहकामं अप्पच्छंदो निक्खियमाणो उ दोसवं होइ। तं पुण जुज्ज इ असढे तीरियकज्जे पुण वहेज्जा // 133 // कामशब्दो मकरध्वजे अवधृतौ च / इहावते काममवधृते काममवधृतमेतत् आत्मच्छंदसा निक्षिपन् दोषवान् भवति . For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy