________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नयनं बहिर्वातादिकमसहमानस्य अन्तर्निर्हरणं तथा तस्मिन् काले मरणसमये नमस्कारो दातव्यः / गतं परिज्ञाद्वारं ग्लानद्वारं च / सम्प्रति संयमातीतद्वारं वादिद्वारं चाहजोव्विय भंसिजते गमतोसोचेव भंसियाणंपि। हेठा अकरियवादी भणितो इणमो किरियवादी॥१२६॥ य एव चारित्राद्भश्यमाने संयमप्रत्युत्पन्नद्वारे गमक उक्तः स एव भ्रंशितानामुत्प्रव्रजितानामपि ध्रियमाणानां वेदितव्यः न पुनः किश्चिदपि नानात्वं, / गतं संयमातीतद्वारमधुना वादिद्वारमाह-अकिरियवादी इत्यादि य एव प्रापरवादिनि गम उक्तः स एवात्रापि द्रष्टव्यः / केवलं सोऽक्रियावादी भणितो / अयं तु क्रियावादीति विशेषः / यत्र स्थाने वादो दातव्यः तत्र गतस्य यत्कर्तव्यं तथा चाह वादे जेण समाही विजागहणं च वादिपडिवक्खो। सूत्तं न सरइ विक्खेवेणं निविसमाणो तहिं गच्छे // 130 // वादे वादविषये येन तस्य समाधिरुपजायते तत्सर्वं क्रियत, तद्यथा-यदि भणति वाक्पाटवकारि ब्राम्याद्यौषधं दीयतामिति तद्दीयते शरीरजाड्यापहारि तदुपदिष्टं वैद्यौपदिष्टं वा किश्चिद्वस्तु यदि वा दुग्धादिविकृति प्रणीतभक्तं अथवा देशस्नानं सर्वस्नानं वस्त्रादिविभूषा वा विद्याग्रहणं च / 'वादिपडिवक्खो' ति विद्याग्रहणं वा वादिप्रतिपक्षः वादिविद्या-प्रतिपक्षभूतं कार्यते / किमुक्तं भवति? या प्रतिवादी विद्या जानाति तासां प्रतिपन्थिन्यो या अन्या विद्या यथा-'मोरीनउलिविराली' For Private and Personal Use Only