________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिकान तृतीयो विभागः। नंतर // 3 // सुणिऊणनिज्झामगविरहियस्स पोयस्स जह भवे नासो। गीयत्थविरहियस्स उ तहेव नासो परिस्मिस्स // 126 // सुनिपुणः सम्यग जलमार्गकुशलः तेन निर्यामकेन विरहितस्य पोतस्य यथा भवति विनाशस्तथैव गीतार्थविरहितस्य परिज्ञिनः कृतभक्तप्रत्याख्यानस्य भवति विनाशः प्रत्याख्यानफलस्य सुगतिलाभस्याभावात् / निउणमतिनिजामगपोतो जह इच्छियं वए भूमि। गीयत्थेणुवेतोतहय परिणी लहइ सिद्धिं // 127 // यथा पोतः प्रवहणं निपुणमतिनिर्यामकः कर्णधारो यस्य स तथा ईप्सितां भूमि व्रजति / एवं गीतार्थेनोपेतो युक्तः सन् परिज्ञी लभते सिद्धि मोक्षमिति उक्ता पोतदृष्टान्तभावना / अथ किं तस्य विशेषतरं करणीयमित्यत आहउव्वत्तणा य पाणग धीरवणा चेव धम्मकहणा य। अंतो बहिनीहरणं तम्मि य काले नमोक्कारो॥१२८॥ तस्य कृतभक्तप्रत्याख्यानस्य स्वयमुद्वर्तनं कर्तुमशक्नुवत उद्वर्तना कर्तव्या / तस्यां च क्रियमाणायां महान् आश्वासो भवति समाधि च परमां लभते, ततः साधयति परममुत्तमार्थ, तथा तृषापीडितस्य सतःपानकं पानं समर्पणीयं / धीरवणाचेवत्ति दुःखेन परिताप्यमानस्य धीरापना कर्तव्या / यथा धीरोभव धीरो भव अहं तवैतत् दुःखं विश्रामणादिना अपनेष्यामि अपि च पुण्यभागिन् ! सहस्वैतत् दुःखं सम्यगत एव तत्सहनानन्तरमचिरात्सर्वदुःखपहीणो भविष्यसि इत्यादि / तथा धर्मकथनापूर्वपूर्वपरमदुःखकारिमुनिचरितरूपा कथयितव्या / तथा मध्ये धर्ममसहमानस्य बहिनिहरणं बहि ||83 // For Private and Personal Use Only