________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभाग। श्री व्यवहारसूत्रस्य पीठिकाऽनंतरः // 82 // गतं दुर्लभभक्तद्वारं भक्त परिज्ञाद्वारं ग्लानद्वारं च युगपदाह परिमाय गिलाणस्स य दोण्हवि कयरस्स होंति कायव्वं / असतीए गिलाणस्स य दोण्ह वि संते परिमाए // 121 // परिज्ञातेति पदैकदेशे पदसमुदायोपचारात् भक्तपरिज्ञाशब्दः प्रत्याख्यानवाचीत्वात्तस्य च परनिपातः प्राकृतत्वात् सुखादिदर्शनाद्वा प्रत्याख्यातभक्तस्य ग्लानस्य च संभवे द्वयोर्मध्ये कतरस्य भवति कर्तव्यम् / उच्यते-शक्ती सत्यां द्वयोरपि कर्त्तव्यम् / अथ न शक्तो द्वयोरपि कर्तु ततो ग्लानस्य कर्तव्यम् , तस्य जीवितसापेक्षत्वात् / शक्तौ सत्यां द्वयोरपि वैयावृत्ये क्रियमाणे सति परिज्ञाते भक्ते प्रत्याख्यातभक्तस्येत्यर्थः / विशेषतरं कर्तव्यमिति वाक्यशेषः अथ शक्तावसत्यां ग्लानस्य कर्तव्यमित्युक्तम् किं कारणमत आहसावेक्खो उगिलाणोनि रक्खोजीवियांम उपरिसी। इइदोण्हवि कायव्वे उकमकरणे करेअसह।१२२॥ ___ग्लानो जीविते जीवने सापेक्षः, परिज्ञी भक्तपरिज्ञानवान् जीविते निरपेक्षस्ततोऽवश्यं ग्लानो जीवयितव्य इति, द्वयोरपि कर्तव्येऽसहोऽसत्यां उत् क्रमेण भक्तपरिज्ञावन्तमुल्लंघ्य ग्लानस्य करणं करणीयं वैयावृत्यं कुर्यात् / यदुक्तं शक्तौ सत्यां द्वयोरपि कर्तव्ये प्रत्याख्यातभक्तस्य विशेषतः कर्तव्यमिति / तत्र कारणमाहवसहे जोहे य तहा निजामगविरहिए जहा पोए। पावति विणासमेवं भत्तपरिणाए संमूढो॥१२३॥ // 82 // For Private and Personal Use Only