________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। // 8 // चुरुदीर्णवेदोऽपि संभवतीति नानात्वं / किमुक्तं भवति ? यदि भिक्षोस्तरुणतया प्रचुरमोहनीयोदयतया उत्प्रव्राजनमनुकूलं भवेत् / ततः स क्षिप्रमुत्पबजेदिति प्रथमं भिक्षुग्रहणं, तदनन्तरं क्षुल्लकादिक्रमकरणे प्रयोजनं प्रागुक्तमवसातव्यम् एतच्च लाघवाय प्रस्तावादुक्तं संप्रत्यधिकृत एव पिट्टनद्वारे साध्वीनां निस्तारण विधिमाहः-भिक्खुणी खुट्ठीभेरी, अभिसेगाय पवत्तिणीचेव; करणं तासिं इणमो, संजोगगमं तु वोच्छामि।। भिक्षुकी क्षुल्लिका स्थविरा अभिषेकाप्रवर्तिनी च एतासामेवं क्रमोपन्यासे कारणं साधुविषये पागुक्तमेवावसातव्यम् / तासां पश्चानामपि करणं निस्तारणकरणमिदं वक्ष्यमाणं संयोगगमं वक्ष्यामि / प्रतिज्ञातमेव निर्वाहयतितरुणी उनिप्फन्ना परिवार सलद्धिया य अप्भासे। अभिसेयाए चउरो सेसाणं पंच चेव गमा // 105 // ___ अस्याः साधुगतगाथाया इव व्याख्या / सम्प्रति द्वयोरपि साधुसाध्वीवर्गयोः संयोगेन निस्तारणविधिमाहपंतावणमीसाणं दोण्हं वग्गाणं होइ करणं तु। पुव्वं तु संजईणं पच्छा पुण संजयाण भवे // 106 // पंतावणं नाम पिट्टनं / तत्र मिश्रयोयोरपि वर्गयोः साधुसाध्वीरूपयोः करणं निस्तारणकरणं भवति / पूर्व संयतीनां पश्चात् पुनर्भवति संयतानां / तद्यथा-भिक्षुभिक्षुक्योः पूर्व भिक्षुकी पश्चाद्भिक्षुः। एवं तुलकक्षुल्लिकयोः पूर्व क्षुल्लिका स्थविरास्थविरयोः स्थविरा / अभिषेकाभिषेकयोरभिषेका / आचार्यप्रवर्तिन्योः प्रवर्तिनी पश्चादाचार्यः। गतं पिट्टनद्वारमधुना संयमच्यावनद्वारमाहभिक्खू खुड्डे थेरे अभिसेयायरिय संजमे पडुप्पण्णे। करणे तेसिं इणमो संजोगगमंतु वोच्छामि।।१०७॥ भिक्षु तुल्लका स्थविरो अभिषेक आचार्यः / कथंभूत ? एकैकइत्याह-संयमे प्रत्युत्पन्नो वर्तमानः तेषां भिक्षुप्रभृतीनां पञ्चानां निस्तारणकरणमिदं वक्ष्यमाणं संयोगगम संयोगतोऽनेकप्रकारं वक्ष्यामि। यथा प्रतिज्ञातमेव करोति // 8 // For Private and Personal Use Only