________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रपरिवारयोर्वासलब्धिकः द्वयोः सलब्धिकयोरलब्धिकयो, यो भवत्यभ्यासे समीपे स निस्तारणीयः / एते पञ्च गमा भिक्षौ भवन्ति अभिषेकगमाश्चत्वारो निष्पन्नतया तस्य निष्पन्नानिष्पन्नगमाभावात् / शेषाणां तु क्षुल्लकस्थविराचार्याणां च भिक्षोरिख पञ्चैव गमाः। तत्र भिक्षुकादिक्रमकरणे कारणमाह-- असहते पच्चा तरणंमि, माहोज सव्वपत्थारो / खुड्डो भीरु णुकंपो असहो घायस्स थेरो य // 10 // गणि आयरियाउ सह देहविओएउ साहस विवजी। एमेवभंसणंमि वि उदिण्णवेदोत्तिनाणतं॥१०॥ ___ भिक्षवोऽहि यदि राज्ञा पिट्टयितुमारभ्यन्ते तदा ते किश्चिदगीतार्थत्वेनासहमानाः प्रत्यास्तरयेयुः / प्रत्यास्तरणं नाम संमुखीभूय युद्धकरणं / ततोऽसहमाने जातावेकवचनं / षष्ट्यर्थेच सप्तमी / असहमानानां प्रत्यास्तरणे प्रतिकूलमभिमुखीभूयस्तरत्वकरणे मा सर्वप्रस्तारः समस्तसङ्घोपद्रवो भूयात् / किमुक्तं भवति ? मा गाढतरं प्रद्विष्टः सन् राजा सर्वमपि सङ्घमुपद्रवेत् / अनेन कारणेन पिट्टनद्वारे भिक्षुः प्रथममुपात्तः, तदनन्तरं दुल्लकः स हि बालत्वाद्भीरुरनुकम्प्यश्च / ततः स द्वितीयस्थाने स्थापितः। तदनन्तरं स्थविरो यतः स्थविरत्वेनाङ्गप्रत्यङ्गानां श्लथीभूततया घातस्य पिट्टनस्यासहः गणि आयरियाउ सह इत्यादि गणी गच्छाधिपतिराचार्य आचार्यपदार्ह एतौ द्वावपि सही समर्थों घातस्येति सम्बध्यते / अपि च देहवियोगेऽपि देहभ्रंशे अपि तुशब्दोऽपिशब्दार्थे साध्वसविवर्जितौ अविमृश्य प्रवृत्तिः साध्वसं तद्विवर्जितौ संमुखीभूय युद्धप्रदानलक्षण साध्वसरहिताविति भावः / ततः स्थविरानन्तरं तौ द्वावपि उपात्तौ तत्राप्यभिषेकादतिशयेन सहो गच्छाधिपतिरित्यभिषेकानन्तरं गणिन उपादानं एवमेवेत्यादि भ्रंशनसंयमच्यावनद्वारेऽप्येवमेव अनेनैवप्रकारेण भिक्षुकादिक्रमकरणे कारणमभिधानीय,नवरं भि For Private and Personal Use Only