________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्रीव्यवहारसूत्रस्य पीठिकान नंतरः। // 7 // यद्यस्ति शक्तिस्ततो द्वावपि वर्गों युगपनिस्तारयेत् / अथासमर्थस्तत एवं यतना आचार्यप्रवर्तिन्योर्मध्ये प्रथमत प्राचार्य निस्तारयेत् / ततः प्रवर्तिनीं। प्रवर्तिनीवृषभयोमध्ये प्रवर्तिनी प्रश्चात् वृषभं / वृषभोऽभिषेकः / वृषभाभिषेकयोर्मध्ये पूर्वमभिषेकं पश्चादभिषेकां / सेसाणपुव्वमित्थीति-शेषेषु षष्टी सप्तम्यर्थे प्राकृतत्वात् पूर्व स्त्री निस्तारणीया अनुकम्प्यत्वात् पश्चात्पुरुषास्तद्यथा-भिक्षुभिक्षुक्योर्मध्ये भिक्षुकी पश्चाद्भिक्षुः / क्षुल्लिकाक्षुल्लिकयोर्मध्ये प्रथमतः क्षुल्लिका पश्चात्तुल्लकः / स्थविरास्थविरयोः पूर्व स्थविरा पश्चात्स्थविरः / अत्रापि सुनिपुणेन भूत्वा अल्पबहुत्वचिन्ता कर्तव्या / कृत्वा च यद्भहुगुणं तत्समाचरणीयम् / उक्तं च-"बहुवित्थरमुस्सग्गं बहुतरमुववायवित्थरं नाउं / जह जह संजम वुड्डी जह जयसू निजरा जयह // " एप मिश्रकरणे युगपत्साधुसाध्वीवर्गनिस्तारणकरणे एषोऽनन्तरोदितः क्रमः गतं जीयत्ति द्वारमधुना पिट्टनद्वारमाहभिक्खू खूड्डग थेरे अभिसेगे चेव तहय आयरिए। गहणं तेर्सि इणमो संजोगगमंतु वोच्छामि॥१०१॥ भिक्षुः क्षुल्लकः स्थविरोऽभिषेकः आचार्यस्तेषामेवं क्रमेण व्यवस्थितानां पश्चानामपि ग्रहणमिदं वक्ष्यमाणं संयोगगर्म संयोगतोऽनेकप्रकारं वक्ष्यामि / प्रतिज्ञातमेव निर्वाहयतितरुणे निप्फन्नपरिवारे सलद्धिए जेय होंति अप्भासे। अभिसेयंमि चउरोसेसाणं पंच चेव गमा॥१०॥ ___यदि शक्तिस्ततः पश्चापि युगपनिस्तारयेत् / तदशक्तावेकैकहान्या यावदेकं भिक्षु सोऽपि यदेकस्तरुणोऽपरश्च स्थविरः तदा तरुणो निस्तारणीयः / द्वयोस्तरुणयोरतरुणयोर्वा निष्पन्नो द्वयोनिष्पन्नयोरनिष्पन्नयोर्वासपरिवारः द्वयोः सपरिवारयो // 79 // For Private and Personal Use Only