SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रार्थप्रतिपृच्छां कुर्वन्ति तस्य समीपे साधवः यदि वा आगाढे योगे व्यवस्थितानां तेषां साधूनां गुरुरुपलक्षण मेतत् , यो वा वाचनाप्रदानेन तेषां निस्तारकोभवति सोऽपि कालगतः ततः स तान् सूत्रार्थप्रदानादिना निर्वाहयति / ततो यावत्सूत्रार्थ प्रतिपृच्छा यावच्च तेषामागाढ योगाना परिसमाप्तिस्तावदवतिष्ठते / ततः परं तु नेति / अथ सूत्रे सेसंतरा च्छेदे वा परिहारे वा इत्युक्तं तत्र परिहाराच्छेदो गरीयान् / प्रथमं च लघु वक्तव्यं, पश्चात् गुरु / ततः सेसंतरापरिहारे वा च्छेदे वा इति वक्तव्ये किमर्थं प्रथमत छेदग्रहणंमतमाह बंधाणु लोमयाए उक्कमकरणं तु होति सुत्तस्स / आगादमिय कजे दप्पेणवि ते भवेच्छेदो // 93 // एवं रूपो हि पाठो ललितपदविन्यासतस्ततो बन्धानुलोमतया, तथा आगाढे प्रयोजने समुपस्थिते यदि कथमपि दर्पण स न गच्छति तस्मिन् दर्पण स्थिते च्छेद एव प्रायश्चित्तं तस्य भवतिनपरिहारतप इति एतदर्थं च मूत्रस्याप्युत्क्रमकरणमिति / तत्र यदि प्रद्विष्टं राजानं नसमूलमुत्पाटयितुमीशः तर्हि स लब्धिकः समस्तं सद्धं निस्तारयेत् / अथ नसमस्तं सङ्घ निस्तारयितुमीष्टेत, तत इमान् पञ्च निस्तारयेत् / तानेवाहआयरिए अभिसेए भिक्खु खुड्डे तहेव थेरे य / गहणं तेसिं इणमो संजोगगमं च वोच्छामि // 9 // प्राचार्यो गच्छाधिपतिः, अभिषेकः सूत्रार्थतदुभयोपेतः आचार्यपदस्थापनाहः, भिक्षुः प्रतीतः, क्षुल्लको बालः, स्थविरो वृद्धः। एतेषां पश्चानामपि ग्रहणमिदं वक्ष्यमाणं संयोगगमं संयोगतो गमः प्रकारो यस्य तत्तथा वक्ष्यामि, प्रतिज्ञातमेव निर्वाहयति For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy