________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | आर्यत्वादिगुणोपेतेन तथा चोक्तम् - - अजेण भव्वेण वियाणएण धम्मपत्तिमेण अलीय भीरुणा। सीलकुलायारसमत्तिएण तेणं समं वाय समायरेजा // आर्य आर्यकर्मकारी अजुगुप्सितकर्मकारीत्यर्थः तेन, भव्योऽनेकगुणसंभावनीयः / विज्ञो वादाभिज्ञः धर्मप्रतिज्ञो धर्मकरणाभ्युपगमपरः, अलीकभीरुः सत्यवादी / तथा शीलाचारसमन्वितः शीलदोषरहित इति भावः / कुलाचारसमन्वितः कुल-11 दोषरहितः तेन समं वादं समाचरेत् / तत ईदृशेन समं वादस्तीर्थकरैरनुज्ञातो नान्यादशेनेति / अथ स शून्यवादी भवेत् न दर्शनी, ततः स्वशक्तिबलेन यं यं हेतुमुच्चरति स स प्रत्युच्चार्या सिद्धत्वविरुद्धत्वानकान्तिकत्वदोषैषयितव्यः / प्रतिज्ञादिकमपि दूषयितव्यम् / अथ कदाचित्तेनास्मदीय एव सिद्धान्तो जगृहे यथा द्वौ जीवाजीवलक्षणौ राशी जगतीतिममप्रतिज्ञेति अत्र पूर्वगाथा खंडस्यावकाशः पराजितोऽनिविसयं परूवणासमए इति तेन पारिहारिकेणत्रीन् राशीन प्रस्थापयित्वा वादे पराजेतव्यः। एतच्च निदर्शनमात्रे, अन्यथापि सिद्धान्तोत्तीर्णमुच्चैर्भाषित्वा पराजेतव्यः / पराजितश्च स यदि भवेत् राज्ञा च निर्विषय आदिष्टस्ततः पश्चात् सकलपषेत्समक्षं स्वसमये स्वसमयविषया प्ररूपणा कर्तव्या कथमित्याह- . परिभूयमति एयस्स एयदुत्तं न एसणे समतो / समएण विणिग्गहिए गजइ वसभोव्व परिसाए // 8 // यदुक्तं मया त्रयो राशयो जीवोऽजीवो नोजीव इत्यादि न एषोऽस्माकं समयः किन्त्वेतस्य वादिनो मतिं परिभवितुमेतदुक्तं यदि पुनः स्वसमयेन परो विनिगृहीतः स्यात्ततस्तस्मिन्विनि गृहीते वृषभ इव प्रतिवृषभं निर्जित्य पर्षदि पर्षन्मध्ये गर्जति, For Private and Personal Use Only