SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारपत्रस्य पीठिकाऽनंतरः। // 7 // यस्मिन् स्थाने प्रयोजनं तत्रसोऽधिकृतः परिहारकल्पस्थितो निक्षिप्तपरिहारतपो वा गत्वा पूर्वमेव संगृह्णाति आत्मीकरोति परिषदं, संगृह्य च परिषदं पटहेन घोषयति / यस्य वादं कर्तुं शक्तिरस्ति स तदभिकांक्षी सत्वरं समागच्छतु / एवं च घोषणायां कारितायां तेन समं वादं करोति कथमित्याह अबंभचारि एसो किंन्नाहिंति कोठ एस उवगरणं / वेसित्थीए पराजितो उन्निव्विसय परूवणासमए // 86 // | वादात्पूर्वमेव निमित्तमुपयुज्य तस्य स्वरूपमवगच्छति, / ततस्तस्मिन्ननागते इदं ब्रूते-एष वाद्यब्रह्मणोऽपि दोषान जानाति / अतएषोऽब्रह्मचारी अब्रह्मप्रतिसेवीपशुवदब्रह्मणोऽपिदोषानजानन् किं कथमन्यत् ज्ञास्यति, एवमुक्त सभ्याः प्रेक्षका युः कथमवसितमेषोऽब्रह्मचारीति ? स पाह-गच्छत प्रेक्षध्वं यूयं यत्रासाववस्थितः तस्मिन् कोष्टके आश्रयविशेषेऽधिकरणं खदवादि अमुकप्रदेशे संगोपितमस्तीति / तथा अमुकया वेश्यया स्त्रिया सममेष अमुकदिवसे चूतेन रममाणः पराजितः तत एतस्य वस्त्रंग्रहणकंगृहीतमेवमादिभिः चिखैरवगच्छत / यथैषोऽब्रह्मचारीति ते गताः सर्वसंवदितं कथितं राज्ञः, निम्बिस य परूवणा इत्यादि पश्चात् व्याख्यास्यते / तदेवं निमित्ताभोगबलवतो यत्कर्तव्यं तदुक्तम् / साम्प्रतमतिशयविशेषमधिकृत्याह| जो पुण अतिशयनाणी सो भणती एस भिन्नचित्तोत्ति। कोणेण समं वादो दटुंपि न जुज्जए एस // 87 // यः पुनरतिशयज्ञानी अवधिज्ञानादिकलितः स च बहुतरं तस्य दुःशीलत्वमवगम्य सर्वमुच्चैनिःशङ्कितं भणति / यथैष मिन्नव्रत इति ततः कोऽनेन सममस्माकं वादो य एष द्रष्टुमपि न युज्यते इति / अथ केन समं युज्यते वाद: उच्यते भणती एस भिन्नत तस्य दुःशीलत्वा अथ केन सर्म // 75 For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy