________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie तावदास्ते / तथा 'आगाढं ' ति आगाढयोगप्रविष्टाः केचन साधवः तेषामाचार्या यदि वा यस्तान् निर्वाहयति वाचना प्रदानादिना स वा कालगतस्ततो यावत्तान् वाचयति, तावदवतिष्ते / पप्पत्ति ईदृशं किमपि शास्त्रमपान्तराले तेन लब्धं यस्मिन्नधीते गाढप्रज्ञावान् भवति / ततः प्रज्ञोऽहं भूयासमिति वसेत् / स मूलादारभ्य कथं व्रजतीत्यत आहवहमाण अवहमाणो संघाडगेण वा असति एगो। असती मूलसहाए अन्नेवि सहायए देंति // 3 // परिहारतपो वहन् यदि वाऽवहन् निक्षिप्तपरिहारतपाः, 'संघाडगेणेत्ति' संद्याटकेन संघाटसाधुनैकेन सहव्रजेत् / तथा आचार्येण ग्लानादि प्रयोजन व्यापृततया तस्य संघाटसाधुः सहायो न दत्तस्ततोऽसतिसंघाटकसाधावेकाकी व्रजेत् / एकाकिनश्च गच्छतः सतोऽसति मूलसहायेऽविद्यमाने मूलादारभ्य संघाटकसाधवेऽन्येऽपि येषामाचार्याणां मध्येन गच्छति तेऽपि तस्य सहायान् ददति / मोत्तण भिक्खवेलं जाणिय कज्जाइं पुव भणियाई।अप्पडिबद्धो वच्चइ कालं थामं च श्रासज्ज // 4 // मुक्त्वा भिक्षावेला यानि च कार्याणि पूर्वभणितानि उभयो गेलन्ने वा इत्यादि रूपाणि तानि च मुक्त्वा अप्रतिबद्धो गोकुलादिषु प्रचुरगोरससर्पिरादिलाभेऽपि प्रतिबन्धमकुर्वन् कालं विहारोचितं स्थामं च प्राणमात्मीयं गमनविषयमासाद्य विहारक्रमकालमौचित्येन स्वरायोचित्येन चेत्यर्थो व्रजेत् // गंतण य सो तत्थ य, पुचि संगिगहए ततो परिसं। संगिरिहत्ता परिसं करेइवादं समं तेणं // 8 // For Private and Personal use only