SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकानंतरः। // 74 // एतस्याभावे संविज्ञपाक्षिकेषु भिक्षां कृत्वा असंविज्ञपाक्षिकश्रावकेषु वसति 2 / एतस्याभावे संविज्ञपाक्षिकश्रावकेषु मिक्षा कृत्वा संविज्ञपाचिकश्रावकषु वसति 3 / अस्याप्यसंभवे संविज्ञपाक्षिकश्रावकेषु भिक्षां कृत्वा असंविज्ञपाक्षिकश्रावकेषु वसति / / सम्प्रति यदुक्तं 'नो से कप्पद विहारवत्तियं वत्थए ' इति तत्र विहारं व्याख्यानयबाहआहारोवहिज्झातो, सुंदर सेजा विहोइ हु विहारो। कारणतो उ वसेजा. इमे उते कारणा होति // 81 // __ आहारः खन्वत्र शोभनो लभ्यते / यदि वा उपधिः स्वाध्यायो वा तत्र सुखेन निर्वहति / अथवा सुंदरा शोभना शय्या वसतिरित्येष आहारादि विहारहेतुत्वाद्भवति विहारः / तत्प्रत्ययं न कल्पते वस्तुं कारणतः पुनस्तुशब्दस्य पुनः शब्दार्थत्वात् वसेत् / एतेन कारणवत्तियं वत्थए इति व्याख्यानयति / तानि पुनः कारणानीमानि वक्ष्यमाणानि भवन्ति तान्येवाहउभतो गेलन्ने वा वास नदी सुत्त अत्थ पुच्छा वा।विजा निमित्तगहणं करेति श्रागाढ पन्नावा // 2 // उभयतो द्वाभ्यां प्रकाराभ्यां ग्लान्यं ग्लानत्वं भवेत् / किमुक्तं भवति ? स एव पारिहारिको गच्छन् अपान्तराले ग्लानो जातः / ततो वसेद्यदिवान्यः कोऽपि साधुरभवत् ग्लानस्तं दृष्ट्वा श्रुत्वा वा तत्परिचरणार्थ तिष्ठेत् / यदि वा वर्षे पतति नदी वा पूरेण समागता, / सुत्त अत्थ पुच्छा वा इति केचिदाचार्याः सूत्रमर्थ प्रतिपृच्छेयुः / ततः सूत्रार्थप्रतिपृच्छादाननिमित्तं वसेत् , विजेत्ति परवादिनो मुखबन्धकरणी कस्यापि पार्श्वे विद्या समस्ति, यदि वा मायूरी नकुली इत्यादिकाः कस्यापि विद्याः सन्ति निमित्तं वाऽतिशायि कस्यचित् सकाशेऽस्ति / ततो यावद्विद्याग्रहणं निमित्तग्रहणं वा करोति // 74 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy