________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir साम्प्रतमसंविग्ना सांभोगिकपश्चात्कृत साभिग्रहचतुर्भङ्गी भाव्यते, असंविज्ञा सांभोगिकेषु भिक्षां कृत्वा असंविज्ञा सांभोगिकेषु वसति / एष पूर्वचतुर्भङ्गयाश्चतुर्थो भङ्गः / एतस्याभावे असंविना सांभोगिकेषु भिक्षां कृत्वा पश्चात्कृतसाभिग्रहश्रावकेषु वसति 2 / पश्चात् कृतव्रतपर्यायो यैस्ते पश्चात् कृता मुक्तव्रतपर्यायाः पुराणा इत्यर्थः / एतस्यापि भङ्गस्याभावे पश्चात्कृतसाभिग्रहश्रावकेषु भिक्षां कृत्वा असंविज्ञा सांभोगिकेषु वसति 3 / एतदभावे पश्चात्कृतसाभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतसाभिग्रहश्रावकेषु वसति 4 / / इदानीं पश्चात्कृतसाभिग्रहनिरभिग्रहश्रावकचतुर्भङ्गी भाव्यते-पश्चात्कृतसाभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतसाभिग्रह श्रावकेषु वसति 1 / एष पूर्वचतुर्भङ्गपाश्चतुर्थो भङ्गः / एतस्याभावे पश्चात्कृतसाभिग्रहश्रावकेषु मिक्षां कृत्वा पश्चात्कृतनिरभिग्रहश्रावकेषु वसति 2 / एतस्याभावे पश्चात्कृतनिरभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतसाभिग्रहश्रावकेषु वसति 3 / एतदभावे पश्चात्कृतनिरभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतनिरभिग्रहश्रावकेषु वसति 4 // सम्प्रति पश्चात्कृतनिरभिग्रहसंविग्नपाक्षिकश्रावकेषु चतुर्भङ्गीभावना पश्चात्कृतनिरभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतनिरभिग्रहश्रावकेषु वसति / एष प्राक्तनचतुर्भङ्गघाश्चतुर्थभङ्गः 1 / एतस्याभावे पश्चात्कृतनिरभिग्रहश्रावकेषु भिक्षां कृत्वा संविज्ञपाक्षिकश्रावकेषु वसति 2 / एतस्यासंभवे संविज्ञपाक्षिकेषु श्रावकेषु भिक्षां कृत्वा पश्चात्कृतनिरभिग्रहश्रावकेषु वसति 3 / एतस्याप्यसंभवे संविग्नपाक्षिकश्रावकेषु भिक्षां कृत्वा संविग्नपाक्षिकश्रावकेषु वसति 4 / इदानीं संविज्ञपाक्षिकासंविज्ञपातिकश्रावक चतुर्भङ्गी भाव्यते-सविज्ञपाक्षिकश्रावकेषु भिक्षां कृत्वां संविज्ञपाक्षिकश्रावकेषु वसति 1 / एष पूर्वचतुर्भङ्गयाश्चतुर्थो भङ्गः / For Private and Personal Use Only