________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकानंतर। // 73 // * नास्ति सामर्थ्य ततः परिहारतपो निक्षिप्य गोकुलादिषु प्रतिबन्धमकुर्वन् गच्छति, / तत्र यदुक्तं-'जब जम्मं दिसा साहम्मिया तमं तसं दिसं उवलित्तए' इति तद्व्याख्यानमाह-मीसपंथेण मिश्रेण साधर्मिका साधर्मिक युक्तेन पथा गन्तव्यम् / अस्यैव व्याख्यानमाह-समणुहोसु इत्यादि स परिहारिकः समनोज्ञेषु संभोगिकेषु भिक्षां कृत्वा मनोज्ञेषु संभोगिकेषु वसति / अत्र चत्वारो भङ्गास्तद्यथा मनोज्ञेषु भिक्षांकृत्वा मनोज्ञेषु वसति एष प्रथमो भङ्गः साक्षादुपात्तः। एतस्यासंभवे सांभोगिकेषु भिक्षां कृत्वा असांभोगिकेषु वसति 2 / एतस्याप्यभावे तृतीयः असांभोगिकेषु भिक्षां कृत्वा सांभोगिकेषु वसति 3 / एतस्याप्यसंभवे चतुर्थ: असांभोगिकेषु भिक्षां कृत्वा असांभोगिकेषु वसति / एवमेते संविज्ञ सांभोगिकेषु चत्वारो भङ्गा उक्ताः। एवं संविग्ना संविज्ञ सांभोगिकादिषु द्रष्टव्यास्तथा चाहएमेवय संविग्गे असंविग्गे चेव एत्थ संजोगा। पच्छाकड साभिग्गह सावगसंविग्ग पक्खीय // 8 // यथा संविज्ञ सांभोगिकासांभोगिकेषु चतुर्भङ्गया भिक्षावसतय उक्ता, एवमेव अनेनैवप्रकारेण संविग्रेऽसंविग्ने वा सांभोगिके भिक्षावसतिविचारे संयोगा वक्तव्याः। एवमेव असंविनाः सांभोगिकाः पश्चात्कृतसाभिग्रहनिरभिग्रह श्रावकेषु, तेषामप्यसंभवे संविज्ञपाक्षिकासंविज्ञपाक्षिक श्रावकेषु प्रत्येकं चत्वारः संयोगाः कर्तव्याः। सर्वत्र च पूर्वपूर्वचतुर्भङ्गी चतुर्थभङ्ग उत्तरोत्तर चतुर्भङ्गयां प्रथमो भङ्गः। तद्यथा-संविनासंविभोगिकेषु भिक्षां कृत्वा संविज्ञासंभोगिकेषु वसति 1 / एतस्य भङ्गस्याभावे संविनासंभोगिकेषु भिक्षां कृत्वा असंविज्ञासांभोगिकेषु वसति 2 / असंविज्ञासा भोगिकेषु भिक्षां कृत्वा संविज्ञासांभोगिकेषु वसति 3 / अस्यासंभवे असंविज्ञासांभोगिकेषु भिक्षां कृत्वा असंविनासांभोगिकेषु वसति 4 / तदेवं संविज्ञासांभोगिक चतुर्भङ्गी भाविता॥ // 73 / / For Private and Personal Use Only