SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सचावात्सल्यप्रत्ययं, अपभ्राजनाप्रत्ययं, तीर्थहानिश्च तीर्थहानिप्रत्ययं च प्रायश्चित्तमापद्यते इति / / अप्परिहारी गच्छति तस्स असतीए जोउ परिहारी। उभयम्मि वि अविरुद्ध पायरहेउं तुतग्गहणं / 78 // ____ अत्रेयं सामा चारी यद्यपरिहारिक सूत्रार्थसम्पन्नः सलब्धिकश्च तत्कार्य साधयितुं समर्थः ततः स गच्छति / तस्य तथाभूतस्यापारिहारिकस्यासत्यविद्यमानत्वे यः परिहारी पारिहारिक: स गच्छति एवमुभयस्मिन्नपि अपारिहारिके पारिहारिके च गमने अविरुद्धे यत्सूत्रे तदहणं तस्यैव पारिहारिकस्य ग्रहणं कृतं तदादरहेतोः सूत्रे द्वितीया पश्चम्यर्थे आदरख्यापनार्थमित्यर्थः / किमुक्तं भवति ? यदि पारिहारिकोऽपि गच्छति ततः सुतरामपारिहारिकेण गन्तव्यमिति ख्थापनार्थ पारिहारिकग्रहणं न चोभयग्रहणमुपपत्तिमत् पारिहारिव ग्रहणेनैवोक्तियुक्तित: उभयग्रहणस्य सिद्धत्वात् / यदि पुनरपारिहारिकग्रहणमेव केवलं स्यात्ततः पारिहारिको न यातीति प्रतिपत्तिः स्यान चै तत्समीचीनमतो यथा न्यासः श्रेयानिति / सम्प्रति तस्य संस्थितस्य सहायचिन्तां करोतिसंविग्गमणुमजुत्रो, असती श्रमणुलमीसपंथेणं / समणुलेसु भिक्खं काउं वसएऽमणुप्मेसु // 79 // ___स पारिहारिक संविनमनोज्ञयुक्तो, असति मनोज्ञे संविग्नाऽमनोज्ञसहायो गच्छेत् / इयमत्र भावना-तस्य पारिहारिकस्य गन्तुं प्रस्थितस्य संविग्नो मनोज्ञश्च सहायो दातव्यः, मनोज्ञः सांभोगिकस्तदभावे संविग्नोऽसांभोगिकः / एवंभूतसहायस्य च | यदि सामर्थ्यमस्ति / ततः उत्सर्गतः कन्पते निर्विशमानकस्य सतो गन्तुं, निर्विशमानको नाम परिहारकल्पस्थितः / अथ For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy