SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिका नंतरः। तृतीयो विभागः। // 72 // कर्तव्यमेव काययं वा उवादायेति यदि वा द्वयोरतिपातिनोः कार्ययोः समुत्पन्नयोर्गुरुलाघवचिन्तामुपादाय यत गुरुक प्रवचनोपकारिसकलसवसाधारणं च तत्कर्तव्यमितरदतिपात्युपेक्षते / यत्र यदुक्तं तीक्ष्णतरं प्रथमतः कृत्वा पश्चात्सहमानक कर्तव्यं / न च तन्नकर्तव्यमिति तत्र दृष्टान्तो व्रणक्रियाः / तामेवाहवण किरियाए जो होइ वावडा जरधणुग्गहादीया / काउमुववकिरियं समेंति तो तंवणं विजा॥७६।। ___ बणक्रियायां प्रारब्धायामपान्तराले या भवति व्यापदुपद्रवः कायापदित्याह / ज्वरधनुग्रहादिका ज्वरो वा समुत्पन्नो धनुग्रहो वा वातविशेषः आदिशब्दात्तदन्येषां गुरुकव्याधि विशेषाणां जीवितान्तकारिणां परिग्रहः / तस्य व्यापलचणस्य उपद्रवस्य क्रियां कृत्वा ततः पश्चातं व्रखं वैद्याः शमयन्ति / एष दृष्टान्तोऽयमर्थोपनयःजह आरोग्गे पगयं एमेव इमंमि कम्मखवणेण / इहरा उ अवच्छल्लं ओहावण तित्थहाणी य // 77 // ___ यथा वैद्यक्रियायामारोग्यप्रकृतं येनारोग्यं भवति, तत्प्रथमं क्रियते शेषं पश्चादित्यर्थः / एवमेव अनेनैव प्रकारेण अस्मिन्नपि मोक्षानुष्ठाने कर्मक्षपणेन प्रकृतं येनानुष्ठाने कर्मक्षपणमचिराद्भवति, तत्प्रथमतः कर्तव्यमिति भावः / इयमत्र भावना-मोक्षार्थ क्रियमाणायां क्रियायामपान्तराले यदन्तरायमुपजायते, येनाक्रियमाणेन प्रायश्चित्तमुपजायते, तत् प्रथमतः कत्तव्यमितरत् पश्चात्तथा चात्रापि परिहारतपस्युद्यमाने अन्तरा सङ्घादिकार्यमुपस्थितम् / ततः परिहारतपो निषिप्य तत् क्रियते, अन्यथा प्रायश्चित्तापत्तितः कर्मक्षपणासंभवस्तथा चाह-इतरथा अधिकृतसक्दादिप्रयोजनाकरणे भवात्सन्यं // 72 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy