________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बहुशो अनेकवारं वादेषु प्रक्रियावादादिषु पराजितः प्रचण्डश्च स न मां मुक्त्वा अन्येन निवारयितुं शक्यते / नापि राजा | पिट्टनादि कारयन् , ततो यदि गुरूणामनुज्ञा भवति ततोऽहं गच्छामीति शेषं पूर्वगाथागतमुवानमिति न व्याख्यातम् / अत्र चोदक आहचोएइ कहं तुप्भे परिहारतवं गतं पवमं तु। निक्खिविउं पेसेहा चोयग सुण कारेणमिणं तु // 74 // ___चोदयति प्रश्नयति परो यथा-कथं यूयं तकं परिहारतपं प्रतिपनं परिहारतपो वहन्तं, निक्खिविउमिति परिहारतपो निक्षिप्य निक्षेपं परिहारतपसः कारयित्वा प्रेषयत स हि महातपस्वी दुष्करकारी ततो न युक्तमतस्य तपो मोचयित्वा प्रेषणमिति / अत्राचार्य आह चोदक भृणु कारणमिदं येन कारणेन स तपो निक्षिप्य प्रेचते तदेव कारणमाहतिक्खेसु तिक्खकजं सहमाणेसु य कमेण कायव्वं / न य नाम न कायव्वं कायव्वं वा उवादाय // 75 // तीक्ष्णं नाम यद्गुरुकमतिपाति च / तेषु तीक्ष्णेषु कार्येषु समुत्पन्चेषु य तीक्ष्णकार्यमत्रतरलोपो द्रष्टव्यः / तीक्ष्णतरं कार्य तत्प्रथमं कर्तव्यं पश्चादितरत् / उक्तं च युगपत्समुपेतानां कार्याणां यदतिपाति तत्कार्य, अतिपातिष्वपि फलं, फलदेष्वपि धर्मसंयुक्तं 'सहमाणेसुय' ति सहमानं गुरुकमनतिपाति च तेषु सहमानेपु पुनः कार्येषु समुत्पत्रेषु / तद्यथा-देशकालाद्यौचित्येन युज्यते तत्तथाक्रमेण कर्तव्यं न य नाम न कायव्वंति / न च नाम तीक्ष्णतरं कार्य कृत्वा पश्चात्सहमानकं न कर्तव्यं किन्तु For Private and Personal Use Only