SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतिपृच्छाप्रदाननिमित्तं तदान्येषां गच्छादीनां षष्टी सप्तम्यर्थे प्राकृतत्वादन्येषु गच्छेषु इमानि वक्ष्यमाणानि कार्याणि जातानि / ततः साधनार्थ च गच्छेत् / इदं तु महत्प्रवचनस्य वैयावृत्यं यत्सूत्रार्थप्रदानादि करोति / अथकान्यन्येषु गच्छेषु जातानि कार्याणि यदर्थ स व्रजेत् अत आह अकिरियजीए पिट्टण संजमबंधेय भत्तमलभंते। भत्तपरिमगिलाणे संजमतीए य वादी य // 71 // ___ अक्रियावादी नास्तिकवादी स राजसमक्षं वादं वाचते / जीए ति जीविते साधूनां प्राणेषु वा राजा केनापि कारणेन प्रद्विष्टः / 'पिट्टण 'त्ति पिट्टयति वा लकुटादिभिः साधुन् / 'संजम' त्ति संयमादाच्यावयति उत्प्रव्राजयतीति भावः / बंधत्ति बनाति वा साधुन् बन्धे च कृते साधवो राज्ञः सकाशाद्भक्तपानं लभन्ते वा न वा किमुक्तं भवति / बन्धयित्वा स्वयं ददाति वा अथवा वारयति एतेभ्यो हिण्डमानेभ्यः कोऽपि मा भिक्षां दद्यादिति भावभत्तित्ति दुर्भिक्षेवा समापतिते भक्तमतीव दुर्लभं जातमिति गत्वा स संपादयति, परिमत्ति भक्तप्रत्याख्यानं वा केनापि साधुना कृतं स च परिहारिकः शोभनो निर्यामकः, / गिलाणत्ति ग्लानो वा कोऽप्याचार्यादिकः प्रवचनाधारभूतो जातः स च पारिहारिकः सम्यग् वैद्यकलाकुशलः, संजमतीतेति संयमातीता उत्प्रव्रजितास्ते राज्ञा कृताः कृत्वा च धृता वर्तन्ते इति तन्मोचनार्थ गच्छति, वादीत्ति नास्तिकवादि व्यतिरिक्तो दर्शनान्तरस्थः कोऽपि वादं याचते / एतेषां कारणानामन्यतरस्मिन्नपि कारणे जाते अन्यगच्छवर्तिभिः सङ्घाटकः प्रेषितः / तेन च सङ्घाटकेन आचार्यस्य निवेदितम् / तत आचार्यस्तस्य परिहारिकस्य माहात्म्यमवगच्छनिदमाह For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy