________________ Shri Mahavir Jain Nadhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पते / तत्रेति गच्छन् यत्र वसति मिचा वा करोति / तत्र सुन्दर भाहारः, सुन्दर उपधिः, सुन्दर शय्येति, समीचीनो विहार इति विहारप्रत्ययं वस्तुं कप्पइ सेत्यादि कन्पते, से तस्यानन्तरोदितस्य यत्र मियां कृतवान् उषितवान् वा / तत्र कारणप्रत्ययं वक्ष्यमाणसूत्रार्थ प्रतिपृच्छादानादिकारणनिमित्तं वस्तुं, तम्सिचणमित्यादि / येन कारणेनोषितस्तस्मिन् कारणे निष्ठिते परिसमाप्ते यदि ब्रूयात् / अहो आर्यवस एकरात्रं द्विरात्रं वा तत एवं तदुपरोधतः से तस्य कन्पते / एकरात्रं द्विरात्रं वा वस्तुं न पुनः से तस्य कन्पते एकरात्रात् द्विरात्रात् परं वस्तुं, यत्पुनस्तत्रैकरात्रात् द्विरात्राद्वा परं वसति निष्कारणं तस्मात्सान्तरात् स्वकृतादन्तरादपान्तराले निष्कारणवसनरूपात्से तस्य प्रायश्चित्तं च्छेदो वा परिहारतपो वेति एष सूत्र संक्षेपार्थः / साम्प्रतमेतदेव सूत्रं विवरीषुः प्रथमतो मिचुशब्दविषये चालना प्रत्यवस्थाने माह परिहारिय गहणेणं भिक्खुगहणं तु होइ किं न गयं / किं च गिहिणविभमित्ति गणि पायरियाणपडिसेहो ? // 67 // अथवा पारिहारिकग्रहणेन परिहारकन्पस्थितग्रहणेन भिक्षुग्रहणं किं न भवतीति गतं गतार्थ भवत्येवेति भावः। परिहारकस्य भिक्षुत्वाव्यभिचारात् न खलु पारिहारिकत्वं गृहस्वस्यापि भवति / एतदेव का का माह-किं च गिहीणवित्ति किंवा गृहिणामपि गृहस्थानामपि भवति पारिहारिकत्वं येन तव्यवच्छेदकरणतो भिक्षुग्रहणं सफलतामनुवीत् / नैव भवतीति भावः। ततो निरर्थकं मिनुग्रहणं / अत्राह भण्यते उत्तरं दीयते, गण्याचार्ययोर्गणी गच्छाधिपतिराचार्योऽनुयोगाचार्य For Private and Personal Use Only