________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यव परिहारो खलु एगतो अदिन्नगं वावि पावपरिहारं / सक्खित्तनिग्गमो वा भणिउ इमगंतुदूरेवि // हारसूत्रस्य इह पूर्वपूर्वतरसूत्रेषु परिहार उक्तो न च कचिदप्यन्तराले परिहारप्रकरणं व्यवच्छिदं ततः प्रकृतः खलु परिहार इति पीठिका तत्प्रकरणानुरोधादत्र परिहार्यभिधीयते यदि वा अनन्तरस्त्रे इदमुक्तं स्थविरैरनुज्ञातामभिशय्यामभिनषेधिकीं वा यदि गच्छति नंतरः। ततः प्रामोति परिहारमिति / अत्र तु स एव परिहारितामुपगतः प्रतिपाद्यते / अथवानन्तरसूत्रे अभिशय्यादिगमनमुक्तं स प्रत्यासन् क्षेत्रनिर्गमः। इदं तु सूत्रं दूरे निर्गमनमभिधत्ते इत्यनेन सम्बन्धेनायातस्यास्य व्याख्या परिहारस्य कन्पः सामाचारी // 9 // परिहारकल्पस्तत्रस्थितः परिहारकम्पस्थितः प्रायश्चित्ततपः प्रकारे व्यवस्थित इत्यर्थः भिचुव्रती बहिरन्यत्र नगरादौ स्थविरा*णामाचार्यादीनां वैयावृत्याय वैयावृत्यकरणाय गच्छेत् स्थविराश्च येषां समीपे तिष्ठन्ति ते स्मरेयुर्यथेष परिहारकम्पस्थितो वतेते, स्मरद्भिः स्थविरैः स वक्तव्यो यावत्प्रत्यागच्छसि तावविक्षिप परिहारतपः / तत्र यदि सामर्थ्यमस्ति ततः परिहारतपः अपनो गच्छति, / अथवा नास्ति ततो निक्षिपति, निक्षिप्य च स तस्य कम्पने एकरात्रिक्या प्रतिमयान प्रतिमाशब्दोऽभिग्रहो वाची। एकरात्रिकेणाभिग्रहेण किमुक्तं भवति / यत्रापान्तराले बसामि तत्र गोकुलादी प्रचुरगोरसादि लामेऽपि प्रतिबन्धमकुर्वता कारणमन्तरेण मयैकरात्रमेव वस्तव्यं नाधिकमित्येवं रूपेणाभिग्रहेण, जसं जसं दिसिमित्यादि / पत्र द्वितीया सप्तम्यर्थे / यस्यां यस्यादिशि / शंशब्दो वाक्यालङ्कारे। अन्ये साधर्मिकाः (लिंगसाधर्मिकाः) प्रवचनसाधर्मिका PSI वा संविनसंभोगिकादयो वक्ष्यमाणास्तिष्ठन्ति / तमं तमं दिशमिति तां तां दिशं णं शब्दो प्राग्वत् / उपलातुं ग्रहीतुमाश्रयि तुमित्यर्थः / ला आदाने इति वचनात् / नो से कप्पइ इत्यादिनोनैव से तस्य परिहारकन्पस्थितस्य निचिप्तपरिहारतपसो वा // 66 // For Private and Personal Use Only