________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकानंतरः। // 68 // तदपि कृत्वा अथवा तदनन्तरं यत्कृतिकर्म द्विभेदं चामणादाक्तनं परं चेत्यर्थः / तदपि कृत्वा पाठान्तरं तिविहं वेति मूल- कृतिकापेक्षया त्रिविधं वा कृतिकर्मकृत्वा, अथवा कायोत्सर्ग चरमं षण्मासिकं कृत्वा परिज्ञा प्रत्याख्यानंतामपि वा कृत्वा / अत्रायं विधिः / सर्वे साधवश्वरमं कायोत्सर्ग बसतावागत्य गुरुसमीपे वन्दनकं कृत्वा सर्वोत्तमश्च ज्येष्ठ आलोच्य सर्वे प्रत्याख्यानं गृहन्ति / अथवा सर्वमावश्यकं कृत्वा एकां च स्तुतिं दत्वा शेषे द्वे स्तुती कृत्वा शेषं गुरु सकाशे कुर्वन्ति / / तदेवमुक्तं देशत आवश्यकस्य करणमधुना सर्वतः करणमाहथुतिमंगलं च काउं श्रागमणं होंति अभिनिसिजातो। बितियपदे भयणाऊ,गिलाणमादी सुकायव्वा / / ___अथवा प्रत्याख्यानं, तदनन्तरं स्तुति मङ्गलं च स्तुतित्रयाकर्षणरूपं तत्र गत्वा अभिशय्यात आगमनं भवति / तत्रेयं सामाचारी गुरुसमीपे ज्येष्ट एक आलोचयति / आलोच्य प्रत्याख्यानं गृहाति / शेषैः ज्येष्ठस्य पुरतः आलोचनाप्रत्याख्यानं च कृतं वन्दनकं च सर्वे ददति / बामणं च; द्वितीयपदे अपवादपदे ग्लानादिषु प्रयोजनेषु भजना कर्तव्या। किमुक्तं भवति ? ग्लानादिकं प्रयोजनमुद्दिश्य वसतौ नागच्छेयुरपीति ग्लानादीन्येव प्रयोजनान्याहगेलावास महिया पठ अंतेउरे निवे अगणी / अहिगरण हस्थि संभम गेला निवेयणा नवरि // ग्लानत्वमेकस्य बहूनां साधूनां तत्राभवत् / ततः सर्वेऽपि साधव स्तत्रव्यापृतीभूता इति न बसतावागमनं / अथवा वर्ष पतितुमारब्धं, मिहिका वा पतितुं लग्ना, यद्वा पउठति प्रद्विष्टः कोऽप्यन्तरा विरूपकरणाय तिष्ठति अन्तःपुरं वा तदानीं निर्गन्तुमारब्धं / तत्र च राजा उद्घोषितं यथा-'पुरुषेण न केनापि रथ्यासु संचरितव्यम् ' / राजा वा तदा निर्गच्छति तत्र // 68 // For Private and Personal Use Only