________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काउस्सग्गमकाउं कितिकम्मालोयणं जहम्मेणं / गमणम्मी एस विही आगमणम्मी विहिं वोच्छं // यो दैवसिकातिचारानुपेचार्थ प्रथमकायोत्सर्गसमस्तमप्यकृत्वा किमुक्तं भवति ? सर्वमावश्यकमकृत्वामिशय्यां गच्छन्ति | किमेवमेव गच्छन्ति उतास्ति कश्चन विधिरुच्यते / अस्तीति ब्रूमः / तथा चाह-कितिकम्मालोयणं जहलेणंति जघन्येन जघन्यपदे सर्वमावश्यकमकृत्वा सर्वे गुरुम्यो वन्दनं कृत्वा यश्च सर्वोत्तमो ज्येष्ठः स आलोच्य तदनन्तरमभिशय्यां गत्वा सर्वमावश्यकमहीनं कुर्वन्ति / एषोऽभिशय्यायां गमने विधिरागमने अभिशय्यातः प्रत्यागमने पुनर्योविधिस्तमिदानीं वक्ष्ये // प्रतिज्ञातमेव निर्वाहयतिश्रावस्सगं अकाउं निव्वाघाएण होंति भागमणं वाघायम्मि उ भयणा, देसं सव्वं च काऊणं॥ यदि कश्चनापि व्याघातो न भवति, ततो निर्व्याघातेन व्याघाताभावेनावश्यकमकृत्वा अभिशय्यातो वसतावागमनं भवति / आगत्य च गुरुमिः सहावश्यकं कुर्वन्ति, व्याघाते तु भजना का पुनर्भजनेत्यत आह / देशमावश्यकस्य कृत्वा सर्व वा आवश्यकं कृत्वा, तत्र देशत आवश्यकस्य करणमाहकाउस्सग्गं काउं कितिकम्मालोयणं पडिक्कमणं / किइकम्मं तिविहं वा काउस्सग्गं परिलाय॥ कायोत्सर्गमाद्यं कृत्वा वसतावागत्य च गुरुभिः सह कुर्वन्ति / अथवा द्वौ कायोत्सर्गों कृत्वा यदि वा बीन् कायोत्सर्गान् कृत्वा अथवा कायोत्सर्गत्रयानन्तरं यत्कृतिकर्मतत्कृत्वा, अथवा तदनन्तरमालोचनामपि कृत्वा, यदि वा तत्परं यत्प्रतिक्रमणं For Private and Personal Use Only