________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir +-- ---*-*--- योऽसावभिशय्यायाः शय्यातरस्तं वृषभा अनुज्ञापयन्ति, यथा स्वाध्यायनिमित्तं वयमत्र वत्स्याम इति / तत एवं वृषभैरनुज्ञापिते शय्यातरे घरमाण एव अनस्तमिते एव सूर्ये तस्याभिशय्यायां संस्तारकोच्चारकालभूमीः प्रत्युपेक्ष्य भूयो वसतावागत्य इमां वेलामिति कालाध्वनोव्याप्ताविति सप्तम्यर्थे द्वितीया / अस्यामनन्तरं वक्ष्यमाणायां वेलायां व्रजन्ति / कस्यां वेलायामित्यत आह श्रावस्सयं तु काउं निव्वाघाएण होति गंतव्वं / वाघारण उ भयणादेसं सव्वं अकाऊणं // व्याघातस्य स्तेनादिप्रतिबन्धस्याभावो निर्व्याघातं तेन निर्व्याघातेन भवति गन्तव्यं / वसतेराचार्यैः सममावश्यक कृत्वा व्याघातेन पुनर्हेतुभूतेन भजना विकल्पना का भजनेत्यत आह-देशं वा आवश्यकस्याकृत्वा सर्व वावश्यकमकृत्वा। सम्प्रति यैः कारणैः प्रतिबन्धस्तान्युपदर्शयतितेणा सावय वाला गुम्मिय थारक्खि ठवण पडिणीए / इथि नपुंसगसंसत्त वासचिखल्ल कंटेय // स्तेनाश्चौरास्ते सन्ध्यासमयेऽन्धकारकलुषिते संचरन्ति / स्वापदानि वा दुष्टानि भूयांसि तदा च दृप्तानि हिण्डन्ते / व्याला वा भुजङ्गमादयो वातादिपानाय भूयांसः संवरन्ति / तथा गुन्मेन समुदायेन संचरन्तीति गौल्मिका पारक्षकाणामप्युपरि स्थायिनो हिण्डिकाः आरक्षकाः पुररचकास्ते प्रकाले हिण्डमानान् गृहन्ति / तथा ठवणत्ति, क्वचिद्देशे एवंरूपा स्थापना क्रियते यथा-' अस्तमिते सूर्ये रथ्यादिषु सर्वथा न संचरणीयम्' इति प्रत्यनीको वा कोऽप्यन्तरायातं विघातकरणार्थ तिष्ठन् --** -*-*-* KO For Private and Personal Use Only