________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Si Klasagasti Gyarmandie Fo) श्री व्यवहारसूत्रस्य पीठिकानंतरः। तृतीयो विभागः। अभिसेज अभिनिसीहि य एकेका दुविह होइ नायव्वा / एगवडाए अंतो, बहिया सम्बद्धऽसम्बद्धा ____ या गन्तव्या अभिशय्या अभिनषेधिकी वा सा एकैका द्विविधा भवति / तद्यथा-साधु वसतेः एगवडाए इति एकवृत्तिपरिक्षेपायां अन्तर्बहिश्च / इयमत्र भावना-द्विविधाभिशय्या-एकवसतेरेकवृत्तिपरिक्षेपाया अन्तरपरा बहिरेवं नैषेधिक्यपि द्विविधा भावनीया / भूय एकैकाभिशय्या द्विविधा / तद्यथा-सम्बद्धा असम्बद्धा च / तत्र यस्या अभिशय्याया वसतेश्च एक एव पृष्टवंशः सा सम्बद्धा / यस्याः पुनः पृथक् पृष्टवंशः सा असम्बद्धाः / अथैकवृत्तिपरिक्षेपस्यान्तराभिशय्या द्विविधा अपि यथोक्तप्रकारा घटते / यात्वेकवृत्तिपरिक्षेपस्य बहिः सा नूनमसम्बद्धा स्यात् , तस्याः सुप्रतीतत्वात् / या पुनः सम्बद्धा सा पुनः कथमुपपद्यते ? उच्यते-यस्या अभिशय्याया वृत्तिपरिक्षेपस्य बहिर्भूता या वसतेश्च तलमाया एका पृष्टवंशोऽपा न्तराले वसतिः सा बहिर्भूतापि सम्बद्धा इति। नैषेधिकी पुनरन्तर्बहिर्वा नियमात्सम्बद्धैव हस्तशतस्याभ्यन्तरतोऽस्वाध्यायिके * समुत्पने स्वाध्यायासंभवात् / तथा चाहजा साउ अभिनिसीहि य सा नियमा होइ उ असंबद्धा। संबद्धमसंबद्धा अभिसेज्जा होति नायव्वा॥ अत्र येत्येव गतिः सेति यदुक्तं तदोषाभावोपक्रमप्रदर्शनार्थमित्यदुष्टं या सा अभिनषेधिकी / सा नियमाद्भवत्यसम्बद्धा कारणमनन्तरमेवोक्तं या त्वभिशय्या सा सम्बद्धा असम्बद्धा च भवति ज्ञातव्या / अथ कस्यां वेलायां तत्र गन्तव्यं तत्र आह धरमाणच्चिय सुरे संथारुच्चारकालभूमीतो। पडिलेहियाण्णविए वसहेहिं वयंतिम वेलं // For Private and Personal use only