________________ Shri Mahavir Jain Nadhana Kendra www.kobatirth.org Acharya Shri Kailasagarsuri Gyanmandir किमपि गमनप्रतिषेधकारणमभूव , केवलमेवमेव गुरुणा प्रतिषिद्धोऽथ च मया स्वाध्यायः कर्तव्यो वसतौ चा स्वाध्यायादिकमुपजातमतः किं करोमि यामि वसतिं प्रतिपृच्छामि गुरुम् ' इति / एवमुक्ते ते वृषभादयोऽभिशय्यां गन्तुकामाः कालस्य स्तोकत्वात् यावत् वसतौ गत्वा गुरून् प्रतिपृच्छय समागच्छन्ति तावत् रात्रिः पततीति तं प्रत्येवमुदीरयति / तं पि येत्यादि तदपि गुरूणां प्रतिपृच्छनं / 'होढा' इति देशीपदमेतत् दत्तमेव कृतमेवेत्यर्थः। यस्मादसमीक्ष्यापर्यालोच्यानाभोगत एवमेवेत्यर्थः / त्वं प्रतिषेधितस्ततो यत्र किमपि गुरवो वक्ष्यन्ते, तत्र वयं प्रत्यायपिप्यामो यथैव न किमपि गमनप्रतिषेधकारखंकृतवान् प्रतिपृच्छार्थ वा गच्छन् अस्माभिवोरितस्तावत् कालस्याप्राप्यमाणत्वात् / एवमुक्त्वा बलादपि तं वृषभा नयन्ति / सोऽपि च बलानीयमानश्चिन्तयति यथा 'नास्ति मम कश्चिद्दोषः किं न गच्छामीति स च तत्र गच्छन् वृषभाश्च / येऽन्ये साधवो वसतिमुपयन्ति तेषां सन्देशं प्रयच्छन्ति / अथासमीक्ष्य स प्रतिषिद्ध इति वृषभाः कथं जानन्तीत्यत आह-- जाणंति वतं वसभा अहवा वसभाण तेण सप्भावो। कहितोन मेत्थि दोसो तोणं वसभा बला नेति॥ जानन्ति स्वयमेव तं वृषभा यथा निर्दोष एषोऽकारणे गुरुणा प्रतिषिद्धः, अस्मत्समचमेवास्य प्रायोऽवस्थानात् / अथवा तेन वृषभाणां सद्भावः कथितो यथा न मे कश्चन दोष इति / तत् एतत् ज्ञात्वा गुरुमनापृच्छयैव यथोक्तप्रकारेण वृषभा बलानयन्ति / योऽपि आचार्यस्य प्रतिचारीपूर्व प्रतिषिद्धः सोऽपि तत्कर्तव्यं / यदि वृषभैः सम्पादितं भवति, ततो गच्छत्यभिशय्यामिति न कश्चिद्दोषः // सम्प्रत्यभिशय्याया नैषेधिक्याश्च भेदानाह For Private and Personal Use Only