SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदाभिशय्याया गन्तव्येति / यदुक्तं-मासोउकक्करणे इति तत्र ककरणं व्याख्यानयति / एते रिक्ताः प्राघूर्णका अस्मद्वधाय उपयन्ति समागच्छन्ति / एवमादिभाषणं कक्करणेति / संप्रति यदवादीत् आचार्येण न गन्तव्यमनापृच्छया वा (साधुभिः ) गन्तव्यमिति तद्विषयमपवादमाह -- बितिय पयं वायरिए निदो से दुरगमणाणा पुच्छा / पडिसेहे गमणमि तो तं वसभा बलं नेति॥ द्वितीयपदमपवादमाचार्यविषये क्व सतीत्यत आह-निर्दोषे स्न्यादिदोषाणामभावे / यदि वा निर्गता दोषा यस्मात्तत् निर्दोष क्षेत्रं, तस्मिन् तथा दूरे अभिशय्या ततस्तत्र दूरगमने अनापृच्छा तथा प्रतिषेधितस्य गमने द्वितीयपदमिदं तोत्ति तस्मादेव संज्ञादिस्थानात् परतो यदि वृषभा बलानयन्ति तदा सप्रतिषेधितः प्रतिपृच्छामन्तरेणापि गच्छतीति / एष गाथासंक्षेपार्थः। ___साम्प्रतमेनामेव गाथां विवरीषुः प्रथमत 'आयरिए निद्दोसेइ ' इति व्याख्यानयति-- जत्थ गणी नवि नजइ, भद्देसु य जत्य नत्थि ते दोसा। तत्थ वयंतो सुद्धो इयरेवि वयंति जयणाए। यत्र गणी आचार्यों न ज्ञायते, अपि शब्दान च तथाषिधोदारशरीरो नापि केनचिदपि सह वादोऽभवत् / यत्र स्वभावत एव भद्रेष्वनुत्कटरागद्वेषेषु लोकेषु प्रागुक्ताः स्त्र्यादिसमुत्था दोषा न सन्ति तत्राभिशय्यामपि गच्छन्नाचार्यः शुद्धः / इतरेऽपि ये अनापृच्छया गच्छन्ति / य एव प्रतिषेधितास्तेऽपि यतनया गच्छन्ति / का यतनेति चेदत आहवसहीए असज्झाए सन्नादिगतो य पाहुणे दटुं / सोउं च असज्झाइं वसहि उवेंते भणइ अम्ले // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy