________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जापानमापन. अन्यो द्वितीयः कन्यान्तःपुरपालको निर्मूहगतां गवाक्षगतामेका कन्यां दष्टा बाहरिताणंति व्याहृत्य आकार्य विनयं शिक्षा तस्याः करोति / ततः शेषाणां कन्यानामुदपादिभयं तेनैकाप्यनद्वारादिषु नावतिष्ठते / न च धृतरपहरणं / ततः सम्यक् कन्यान्तःपुरपालनं कृतवानिति राज्ञा पूजा कृता / एष दृष्टान्तोऽयमर्थोपनयः / राया इव तित्थयरा महत्तरगुरू उ साहु कण्णातो। आलोयण अवराहा अपसत्थपसत्थगो वणतो॥ राजा इव राजस्थानीया तीर्थकरा महत्तरः कन्यान्तःपुरपालकस्तत्स्थानीया गुरवः, साधवः कन्यास्थानीयाः, अवलोकनस्थानीया अपराधाः / अत्राप्रशस्तेन कन्यान्तःपुरपालकेन, प्रशस्तेन चोपनयः कर्तव्यः / तद्यथा-य आचार्यः प्रमादिनः शिष्यान् न वारयति, न च प्रायश्चित्तं ददाति स विनश्यति, / यथा प्रथमः कन्यान्तःपुरपालकः; यस्तु प्रमाद्यतः शिष्यान् वारयति प्रायश्चित्तं च यथापराधं प्रयच्छति / स इह लोके प्रशंसादिपूर्जा प्राप्नोति, परलोके च सम्यक् शिष्य निस्तरणतो निर्वाणमचिरादाप्नुयादिति / सम्प्रति यदुक्तं प्राघूर्णकसमागमे संसक्ते उपाश्रये वृष्टिकाये च निपतति अभिशयां गन्तव्येति तद्विषयमपवादं क्रमेणामिदित्सुराहअसज्झाइए असंते ठाणासति पाहुणागमे चेव / अन्नत्थ न गन्तव्वं गमणे गुरुगा उ पुव्वुत्ता॥ अस्वाध्यायिके असति अविद्यमाने प्राघूर्णकानामागमे ठाणासत्ति स्थानस्य संस्तारकयोग्यभूमिलक्षणस्य असति अपि शब्दोऽत्र सामर्थ्यादवगम्यते / असत्यपि भावप्रधानोऽयं निर्दश इत्यभावेऽपि अन्यत्राभिशय्यादौ न गन्तव्यं / किन्तु For Private and Personal Use Only