________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अति दुक्खेण अद्दितो महापायवो इव छिन्नमूलो हस्थिभएण अचेयणभूतो पडितो हत्थिणा विणासितो॥ बितिए सयमुद्धरती अणुहिए भोइयाए नीहरइ / परिमदणदंतमलादि पूरणं वणगयपलातो // अन्यो द्वितीयो व्याध उपानही विना बने गतस्तस्य वने संचरन्तः कण्टकादयः पादतले प्रविष्टास्तान् स्वयमुद्धरति ये च स्वयमुद्धर्तुं न शक्तास्तान् अनुद्धतान् भोजिकया निजभार्यया व्याध्या नीहारयति निष्काशयति / तदनन्तरं तेषां कण्टकादि वेधस्थानानामङ्गुष्टादिना परिमर्दनं / तदनन्तरं दन्तमलादिना आदिशब्दात्कर्णमलादिपरिग्रहः पूरणं कण्टकादिवेधानां ततोऽन्यदा बन गतः सन् हस्तिना दृष्टोऽपि पलायितो जातो जीवितव्यसुखानामाभागी। एप दृष्टान्तः / / ___साम्प्रतं हार्टान्तिकयोजनामाहवाहत्थाणी साह वाहिगुरू कंटकादिवराहा / सोही य ओसहाई पसत्था नाएण वणतो उ॥ व्याधस्थानीयाः साधवः। व्याधीस्थानीयो गुरुः / कण्टकादिस्थानीया अपराधा औषधानि दन्तमलादीनि तत् स्थानीया शोधिः / अत्र द्वौ व्याघदृष्टान्तौ / प्रशस्तोऽप्रशस्तश्च / आद्योऽप्रशस्तो द्वितीयः प्रशस्तः। तत्र प्रशस्तेन ज्ञातेन दृष्टान्तेनोपनयः कर्तव्यः। आचार्योऽपि यदि तानुपेक्षते ततः कण्टकादीनामुपेक्षको व्याध इव सोऽपि दुस्तरमापदमाप्नोति / तथा चाहपडिसेवंत उवेक्खइ नयणं ओवीलए अकुब्वंतो / संसारहत्थिहत्थं पावति विवरीयमियरो वि // इतरोऽपि आचार्योऽपि / तुशब्दोऽपिशब्दार्थः / यः प्रतिसेवमानान् उपेक्षते न तु निषेधति, न वा कुर्वतोऽकुर्वाणान् For Private and Personal Use Only