SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie प्रापूर्णकाः समागता यत् गन्तव्यमस्माभिराभिशय्यादिषु कर्त्तव्यं वा रात्री जागरणमिति, / तदा तेषां कर्करणे प्रायश्चित्तं मासलघुदेयमिति द्वारगाथासंक्षेपार्थः / साम्प्रतमेनामेव गाथां विवरीषुः प्रथमतोऽतिबहुकं प्रायश्चित्तमिति व्याख्यानयतिअतिबद्यं वेढिजइ भन्ते माहु दुरुब्बुढतो भवेजाहि / पच्छित्तेहिं अयंडे, नियदिण्णेहिं भजेजा। भदन्त ! परमकन्याणयोगिन् गुरो यदि प्रभूतं गुरुमामादि प्रायश्चित्तं पदे पदे दीयते, ततः स प्रायश्चित्तैः समन्ततोऽतिशयेन वेट्यतेऽतिवेष्टितः सन् मा निषेधे हु निश्चितं दुरुद्वेष्टको भूयात् / दुःखेन तस्य प्रायश्चित्तेभ्यः उद्देष्टनं स्यात / अतिप्रभूतेषु हि गुरुषु प्रायश्चित्तेषु पदे पदे दीयमानेषु स कदात्मानमुद्वेष्टयिष्यतीति भावः / अपि च प्रकाण्डे यत्र तत्र वा पदे पदे निर्दयः सद्भिर्युष्माभिर्दत्तैः प्रायश्चित्तैः स भज्येत भन्मपरिणामो भूयात् / तथा च सति महती हानिस्तस्मात् / तं दिजउ पच्छित्तं, जंतरती सा य कीरउ मेरा / जा तीरइ परिहरिउं मोसादि अपच्चउ इहरा // तत् प्रायश्चित्तं दीयतां यत्तरति शक्नोति कर्तु सा च क्रियतां च मेरा मर्यादा या परिहतुं शक्यते पाठान्तरं वा परिवहिउमिति तत्र या परिवोढुं शक्यते इत्ति व्याख्येयम् / उभयत्राप्ययं भावार्थः। या परिपालयितुं शक्यते इति मोसादि अपञ्चउ इहरा इति इतरथा प्रभूते प्रायश्चित्ते दत्ते मृषा दोष उभयोरपि समुपजायते / तत्र गुरोर्मात्राधिकप्रायश्चित्तदानात् / इतरस्य तु भनपरिणामतया तथा परिपालनायोगात् / अन्यच्चातिमात्रे प्रायश्चित्ते दत्ते युष्माभिरपि पूर्वमाशातनादोष उद्भावितः। अप्रत्ययश्च शिष्यस्योपजायते यथातिप्रभूतमाचार्याः प्रायश्चित्तं ददति / न चैवं रूपं प्रायश्चित्तं जिनाः For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy