SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir तृतीयो विभाग श्री व्यवहारसूत्रस्य पीठिका नंतर। // 61 // नखाना परस्परं घर्षणमित्यादिपरिग्रहः / तथा कन्दर्पादिक, कन्दर्पकौकुच्यकौतुकादि कुर्वन्ति // एएसु वट्टमाणे अट्ठिय पडिसेहिए इमा मेरा / हियए करेइ दोसे गुरूएकहणं स देइ ते सोहिं॥ एतेष्वनन्तरोदितेषु दोषेषु वर्तमानान् वारयतीति क्रियाध्याहारः कृतेऽपि वारणे यदि ते न तिष्ठन्ति प्रतिषेधन्ति, यदि वयमेवं कुर्मस्तत किं तव को वा त्वमित्यादि। ततोऽस्थिते प्रतिषेधिते वा नायके इयमनन्तरमुच्यमाना मेरति मर्यादा समाचारी तामेवाह; हृदये तान् दोषान् करोति, कृत्वा च गुरखे कथयति स च गुरुर्ददाति तेषां शोधि प्रायश्चित्तमिति / संप्रति वक्ष्यमाणार्थसंग्रहाय द्वारगाथामाहअतिबहुयं पच्छित्तं, अदिले वाहेय रायकन्ना य। ठाणापति पाहुणए नउगमणं मासोक्ककरणे // ___चोदकवचनं अतिबहुकं प्रायश्चित्तं गुरुमासादि न दातव्यं, तद्दाने व्रतपरिणामस्यापि हानिप्रसक्तः, / अत्र गुरुवचन | HI" जो जत्तिएण सुज्झइ " इत्यादि वक्ष्यमाणं, यः पुनरालोचनाप्रदाने प्रायश्चित्तं शन्यं नोद्धरति, तसिन्नदत्ते अदत्तालोचने व्याधो दृष्टान्तः / यः पुनराचार्यः शिष्यस्व प्रायश्चितस्थानापत्तिं जाननपि न शोधिं ददाति, तस्मिन्नदत्ते अदत्तप्रायश्चित्ते गुरौ दृष्टान्तो राजकन्यापदैकदेशे राजकन्यान्तःपुरपालकः / तथा ठाणा सति इत्यादि सङ्कटायां वसतौ प्राघूर्णके समागते सति स्थानस्य योग्यभूमिप्रदेशस्य असति भावप्रधानोऽयं निर्देशो अविद्यमान उत्सर्गतो न तु नैव गमनं, किन्तु यतना वक्ष्यमाणा कार्या, तस्यां च यतनायां कर्तुमशक्यमाणायामभिशय्यादिषु प्रेक्ष्यमाणा यदि केचन कर्करायन्ते यथाऽस्मद्वधाय // 61 For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy