________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मिथुर्गीतार्थः सामान्यव्रती। एतेषामसति अभावेऽगीतार्थोऽपि माध्यस्थ्यादिगुणयुक्तःप्रवर्तनीयः। केवलं तस्मिन्न गीते भगीतार्थे 'मेरकहणं तु' इति मर्यादया समाचार्याः कथनं यथा साधूनामावश्यके आलोचनायां प्रायश्चित्तं दीयते / नमस्कारपौरुप्यादिकं च प्रत्याख्यानं यत् यस्मै दातव्यमित्येवमादि सर्व कथ्यते इति मावः / अथ किंस्वरूपः सोऽगीतार्थो नायकस्थापनीय इत्यत आह मज्झस्थोऽकंदप्पी जो दोसे लिहइ लेहमो चेव / के सु य ते सीएज्जा दोसेसु ते इमे सुणसु // ____ मध्यस्थो रागद्वेषरहितः अकन्दपी कंदर्पोद्दीपनभाषितादिविकलः / एवंभूतो नायकः स्थापनीयः, / तेन च साधनोऽसमाचारी समाचरन्तः शिक्षणीयाः। शिष्यमाणाश्च यदि कथमपि अबते / यथा यदि वयमेवं कुर्मस्ततस्तव किं कस्त्वमित्यादि तदा स लेहो चेवत्ति लेखक व सयुक लेखक वत्तेषां सर्वेषां साधूनां दोषान् अविस्मरणनिमित्तं मनसि लिखति सम्यग् अवधारयतीत्यर्थः। अथ केषु दोषेषु ते साधवः सीदेयुर्यान् स स्वचेतसि धारयति मूरिराह-तान् दोपानिमान् वक्ष्यमाणान् शृणुत / तत्र यदुक्तं 'एएसिं असतीए ' इत्यादि तद्वयाख्यानार्थमाह-- थेरपवत्ती गीयासतीए मेरं कहत अगीयत्थे / भयगोरवं च जस्स उ करेंति सयमुजतो जो य॥ ___ स्थविरस्य प्रवर्तिन उपलक्षणमेतत् / गणावच्छेदस्य च तथा गीतस्य गीतार्थस्य भिक्षोरसति अभावे भगीतार्थोऽपि प्रेषणीयः / तस्मिश्चागीतार्थे प्रेक्ष्यमाणे मेरचि मर्यादा सामाचारी यथोकखरूपां कथयन्ति / किंविशिष्टः सोऽगीतार्थः प्रेष्य For Private and Personal Use Only