SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकानंतरः। // 6 // आह-भयगौरवमित्यादि यस्य भयं साधवः कुर्वन्ति यस्य चानुवर्तनागुणतोभयतो गौरवं यथोचितं कुर्वन्ति / यश्च स्वयमास्मना समुद्युक्तोऽप्रमादी सोऽगीतार्थो नायकः प्रवर्तनीयः / किं कारणभिति चेत् ? उच्यते-असमाचारीरूपदोषप्रतिषेधनार्थ / अथ के ते असमाचारीरूपा दोषाः अत आह--- पडिलेहणऽसज्झाए श्रावस्सगदण्डविणयरा इत्थी। तेरीच्छ वाणमन्तर पेहा नहवीणि कंदप्पे।। प्रतिलेखनायामखाध्याये आवश्यक दण्डे, उपलक्षणमेतत् , दण्डकादौ विषये / तथा विनये वंदनकादौ तथा राशि स्त्रियां तिर्यक्षु हस्त्यादिषु वानमन्तरे वानमन्तरप्रतिमायां विपणिषु रथेन गच्छन्त्यां प्रेक्षायां कालग्रहणादौ नहवीणत्ति नखवीणिकायां कन्दर्प वा समाचारीरूपा दोषाः / एतद्वारगाथासंचेपार्थः एतेन यदुक्तं प्रागुक्तानिमान् दोषान् शृणुतेति तव्याख्यानमुपक्रान्तमिति द्रष्टव्यं / तत्र प्रतिलेखनद्वारमस्वाध्यायद्वारं च विवरीषुराह-- पडिलेहण सज्झाए न करिति हीणाहियं च विवरीयं / सेजोवहिसंथारे दंडग उच्चारमादीसु॥ प्रतिलेखनां स्वाध्यायं वा मूलत एव न कुर्वन्ति, यदि वा हीनमधिकं विपरीतं वा विपर्यस्तक्रमं कुर्वन्ति / तत्र येषु स्थानेषु प्रतिलेखना संभवति तानि स्थानान्युपदर्शयति / शय्योपधिसंस्तारकदंडकोच्चारादिषु / इयमत्र भावना शय्या वसतिस्तस्याः प्रत्युपेक्षणं मूलत एव न कुर्वन्ति / यदि वा हीनमधिकं वा कुर्वन्ति / अथवा यः शय्यायाः प्रत्युपेक्षणाकालस्तमित्र कुर्वन्ति, किन्तु कालातिक्रमेण, एवमुपधेः संस्तारकस्य दण्डकादेश्च भावनीयं / तथा उच्चारादिभूमी न प्रत्युपेक्षन्ते हीनमधिकं // 6 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy