SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विमामा श्री व्यवहारसूत्रस्य पीठिकानंवरः। // 59 // लभ्य विनाशयेयुस्तत एवमाचार्यगमने दोषास्तस्मातेन न गन्तव्यमिति, न केवलमाचार्येण न गन्तव्यं / किन्त्वतैरपि / न गन्तव्यम् / के ते एते इत्याहगुरुकरणे पडियारी, भएणं बलवं करेज जे रक्खं / कंदप्पविग्गही वा अचियत्तो ठाणदुटो वा॥ गुरोराचार्यादेः करणे करणविषये ये प्रतिचारिणः प्रतिचारकाः कायिकीमात्रकादिसमर्पका विश्रामकाश्च तैर्न गन्तव्यम् / तेषां गमने गुरोः सीदनात् तथा भयेन पश्चात् वसतावपान्तरालेऽभिशय्यायां वा तस्करादिसमुत्थेन भयेन सर्वैरपि साधुभिर्न गन्तव्यमात्मसंयमविराधनादोषप्रसङ्गात् / तथा यो बलवान् गुर्वादीनां तस्करादिभ्यो रक्षां करोति तेनापि न गन्तव्यम् / तद्गमने गुर्वादीनामपायसम्भवात् / तथा यः कन्दर्पः कन्दर्पशीलो यश्च विग्रही यथा तथा वा राटिकरणशीलः यो वा यत्र गम्यते तत्र शय्यातरादीनां कैश्चिदपि कारणैः पूर्ववैरादिभिरवियत्तोत्ति अप्रीतो यश्च स्थानदुष्टः पुरादिदुष्टः एतैरपि सर्ने गन्तव्यं, प्रवचनोहाहात्मविराधनादिदोषप्रसङ्गात् / यदि कथमपि ते गच्छन्ति नतो बलादाचार्यादिभिर्वारयितव्याः इति / अथ कारणे समुत्पन्ने तेषां गच्छता को नायकः प्रवर्तयितव्यः ? उच्यतेगंतव्वगणावच्छेदपवत्ति थेरे य गीयभिक्खू य / एएसिं असतीए अग्गीए मेरकहणं तु // कारणेऽस्वाध्यायादिलक्षणे समुत्पन्ने सति शेषसाधुभिर्गन्तव्यमभिगन्तव्यमभिशय्यादि तेषां च गच्छता नायकः प्रवतिनीयो गणावच्छेदको वक्ष्यमाणस्वरूपः तदभाचे प्रवती, सोऽपि वक्ष्यमाणस्वरूपः तदभावे स्थविरस्तस्याप्यभावे गीत // 59 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy