________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समाध्यादिदोषसंभवः / अथैतद्दोषभयादुपविष्टा एव तिष्ठन्ति / ततो जागरणे रात्री जाग्रतामजीर्णादिदोषसंभवः, / अजीर्णमाहारस्याजरणं तद्भावे च रोगोत्पत्तिः, / रोगे च चिकित्साया अकरणे असमाधिः, क्रियमाणायां च चिकित्सायां षट्कायव्यापत्तिरिति गतं प्राघूर्णकद्वारम् / / ___ अधुना संसक्तद्वारं वृष्टिकायद्वार चाह--' दोसु य संजमे ' त्यादि द्वयोः संसक्ते उपाश्रये वृष्टिकाये च निपतति असंय| मदोषौ संयमविराधनारूपी दोषौ / तथा हि-संसक्तत्वे दुप्रत्येक्षणीया वसतिरिति तत्रावस्थाने स्फुटा संयमविराधना, / तथा वृष्टिकायेऽपि निपतति केषुचित् प्रदेशेषु वसतिर्गलतीति तत्रापि संयमविराधना अप्कायसंयमरिराधनासंभवात् / अन्यच्च वृष्टिकाये निपतति उपधिरपकायेन स्तीम्पते स्तीमितेन चोपधिना शरीरलग्नेन रात्रौ निद्रा नायाति निद्राया अभावे च अजीर्णदोषः / तस्मात् संसक्तायां वसतौ वृष्टिकाये च निपतति नियमतोमि गन्तव्या अभिशय्येति तदेवमुक्तं गन्तव्यकारणं / तथा चाह-- दिटुं कारणगमणं जइ य गुरुवच्चए तो गुरुगा। ओराल इस्थिपेल्लण संका पञ्चस्थिया दोसा // दृष्टं उपलब्धं भगवदुपदेशतः पूर्वसूरिभिः कारणे अस्वाध्यायादिलक्षणे अभिशय्यायां गमनं / तत्र यद्येवं दृष्टे कारणगमने गुरुरभिशय्याममिनेषेधिकी वा व्रजेत् / ततस्तस्य प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः, / को दोषो गुरुगमने इति चेदत आह-उरालेत्यादि आचार्यः प्राय उदारशरीरो भवेत् / सहाया अपि च कथमपि तस्य स्तोका अभवन् / ततः काश्चन स्त्रियः सहायादीनस्थापयित्वा हृदयादिना प्रेरयेयुः। प्रेरणेनाचार्यमुपसर्गयेयुः। अन्यच्च शय्यातरादीनां शङ्का समुपजायते / PE तथा किं वसतावाचार्यों नोषितः नूनमगारी प्रतिसेवितुं गत इति यदि वा प्रत्यर्थिकाः प्रत्यनीकाः प्रतिवाद्यादयोऽल्पसहायमुप For Private and Personal Use Only