________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथा हि-यदि अननुज्ञातेऽवकाशे उच्चारं प्रश्रवणं वा कुर्वन्ति तदा कदाचित् शय्यातरस्तेषामेव वसत्यादिव्यवच्छेदं कुर्यात् / / यदि वा सामान्येन दर्शनस्योपरि विद्वेषतः सर्वेषामपि साधनामिति अथवा कथमप्यलाचणिकतया वसतेरभिशय्यारूपाया व्याघातो भवेत् / ततो रात्रौ मूलवसतिमागच्छतां तेन श्वापदादिभिरात्मविराधना अथ नायान्ति वसतिं तदा अभिशय्यायाः समीपे अप्रत्युपेक्षितस्थानाश्रयणतः संयमविराधना / / गतं विचारद्वारम् अधुना स्तेनद्वारमारक्षकद्वारं च युगपदभिधित्सुराह-- सुमाइं गेहाइ उति तेणा, प्रारक्खिया ताणि य संचरंति / तेणोत्ति एसो पुररक्खितो वा, अन्नोन्नसंका इति वायएज्जा // शून्यानि गृहाणि स्तेना विवक्षितगृहे प्रवेशनाय वेला प्रतीक्षमाणा प्रारक्षकादिभयतो वा उपयन्ति तानि च शून्यानि गृहाणि आरक्षकाः पुररचका मा कश्चिदत्र प्रविष्टश्चोरो भृयादिति संचरन्ति प्रविशन्ति; एवमुभयेषां प्रवेशसंभवे अन्योन्याऽऽशङ्कया आरचका अभिशय्यायामग्रे प्रविष्टं साधुमुपलभ्य स्तेन एप व्यवतिष्ठते इति, स्तेना अग्रे प्रविष्टास्तत्र प्रविशन्तं साधुं दृष्ट्वा पुररक्षक एष प्रविशतीत्येवंरूपया स्तेना आरक्षका वा अतिपातयेयुः व्यापादयेयुः।। गते स्तेना रक्षकद्वारे // सम्प्रति तिर्यग् द्वारमाह दुगंच्छिया वा अदगंच्छिया वा दित्ताअदित्ता तहिं व तिरिक्खा / चउप्पया वालसिरीसवा वा, एगो व दोतिमि व तत्थ दोसा / For Private and Personal Use Only