________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिका नंतरः। तृतीयो विभागः। दोषा अभिहिताः; सम्प्रति ये अभिशय्यादिगतास्तेषां दोषानभिधित्सुरिदमाहजत्थ वि य त वयंती अभिसेज वा निसीहियं वा वि / तत्थ विय इमे दोसा होंति गयाणं मुणेयव्वा // ___ यत्रापि च विविक्ते प्रदेशे ते निष्कारणगामिनो भिशय्यामभिनषेधिकी वा व्रजन्ति / तत्रापि तेषां गतानामिमे | वक्ष्यमाणा दोषा भवन्ति ज्ञातव्याः / तानेवाभिधित्सुरिगाथामाहवीयार तेण श्रारक्खि तिरिक्खा इत्थीओ नपुंसा य / सविसेसतरा दोषा दप्पगयाणं हवंते ते // कथमप्यकालगमने विचारे विचारभूमावप्रत्युपेक्षितायां तथा स्तेनाशङ्कायामारक्खित्ति आरक्षकशङ्कायां तथा तिरश्वां चतुष्पदादीनां संभवे तथा स्त्रियो वा दत्तसङ्केतास्तत्र तिष्ठन्ति / नपुंसका वा दत्तसङ्केतास्तत्र तिष्ठन्ति इत्याद्याशङ्कायां एते वक्ष्यमाणाः सविशेषतरा दोपा दर्पगतानां निःकारणगतानां भवन्ति / तदेव सविशेषतरत्वं दोषाणां प्रतिद्वारमभिधित्सुः प्रथमतो विचारद्वारमधिकृत्याहअप्पडिलेहियदोसा अविदिण्णे वा हवंति उभयपि / वसही वाघाएग वि य एत्तमणंते य दोसा उ॥ यदि नाम ते दर्पगताः कथमप्यचक्षुर्विषयवेलायां गता भवेयुः / ततः संस्तारकोच्चारप्रश्रवणादिषु भूमिष्वप्रत्युपेक्षितासु म ये दोषा ओघनियुक्ती सविस्तरमाख्यातास्ते सर्वेऽप्यत्रापि वक्तव्याः, तथा विकालवेलायां गमने यदि कथमपि शय्यातर उच्चारप्रश्रवणयोग्यमवकाशं न वितरेत् ततोऽवितीर्णेऽननुज्ञाते अवकाशे उभयस्मिन् उच्चारप्रश्रवणलक्षणे भवन्ति दोषाः / / For Private and Personal Use Only