SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / शय्यामभिनषेधिकी वा गतेषु अग्निकायेन प्रदीप्ते उपाश्रये बालानामुपधीनां च दाहो भवेत् / तत्र योकोऽपि साधुनियते तदा चरमं पाराश्चितं प्रायश्चित्तम् / अथ न म्रियते किंतु दाहे भागाढमनागाढं वा परितापनमामोति तदा तनिष्पन्न प्रायश्चित्तं, अथोपधिर्जघन्यो मध्यम उत्कृष्टो वा दह्यते ततस्त निष्पन्न प्रायश्चित्तं, / तदट्ठमन्नोवत्ति तदर्थ बालनिस्तारणार्थ उपघिनिस्तरणार्थ वा अन्यः प्रविशेत् / तदा कदाचित्सोऽपि बालो दात् / अन्यश्च प्रविशन् ततस्तदुभयनिमित्तमापद्यते प्रायश्चित्तं, लोके च महानवर्णवादः गतमग्निदाहद्वारमधुना ख्रीनपुंसकद्वारमाहइच्छी नपुंसगावि य उमत्तणतो तिहा भवे दोसा / अभिघाय पित्ततो वा मुच्छा अंतो व बाहिं व // खियो नपुंसका वा अवमत्वेन हीनत्वेन स्तोकाः साधवो वसतौ तिष्ठन्ति परिणतव्रताश्चान्यत्र गता वर्तन्ते इति ज्ञात्वा समागच्छेयुस्तदागमने च त्रिधा प्रात्मपरोभयसमुत्थत्वेन दोपाः स्युः / तथा हि-यत् स्यादिकमुपलभ्य स्त्रयं क्षोभमुपयन्ति साधवः, एष आत्मसमुत्थो दोषः / यत्पुनः स्वयमक्षुभ्यतः साधुन् बलात् स्व्यादिकं क्षोभयति, एष परसमुत्थः / यदा तु स्वयमपि चुभ्यन्ति स्त्र्यादिकमपि च क्षोभयति, तदा उभयसमुत्थ इति, मृच्छद्विारमाह-अभिघातेत्यादि वसतेरन्तस्थितस्य वसतिपालस्य कथमपि जराजीर्णत्वादिना पतत्यां वसतौ काष्टादिभिः शरीरस्योपरि निपतद्भिः बहिर्वा वसतेः स्थितस्य कथमपि वातादिना पात्यमानेन तरुणा तरुशाखाया वा अभिघातेन मुर्छा भवेत् / उपलक्षणमेतत् / अनागाढा आगाढा वा परितापना स्यात् / यदि चावसतेरन्तर्बहिर्वा व्यवस्थितस्यपित्तत: पित्तप्रकोपतो मुच्छो भवेत् / तत एकाकिन: सतस्तस्य को मामुपशमयेद / ततस्तनिष्पन्नायश्चित्तसंभवः प्रभूतश्च जनापवादः, तदेवं पश्चान्मुक्तानां वसतिपालानां For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy