________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दुविहाविहारसोही य एसणघातो य जा य परिहाणी। श्राएसयविस्सामण परितावणया य एक्कतरे।। स्तेनैरपहारो द्विविधस्तद्यथा-साध्वपहार उपध्यपहारश्च / तस्मिन् द्विविधेऽप्यपहारे शोधिः प्रायश्चित्तं, तद्यथा यद्यैक साधुमपहरन्ति स्तेनास्तदा वसतिपालानां प्रायश्चित्तं मूलं, अथ द्वावपहरन्ति / ततोऽनवस्थाप्यं त्रिप्रभृतीनामपहरणे पाराश्चितं,। तथा जघन्योपध्यपहारे पश्चरात्रिंदिवं, मध्यमोपध्यपहारे मासलघु, उत्कृष्टोपध्यपहारे चतुर्गुरुकं,। तथा एपणाया घात: प्रेरणमेषणाघातः, स च स्यात् / तथाहि भवत्युपधि पात्रादिकमन्तरेण एषणाघातस्तत एषणा प्रेरणे यत्प्रायश्चित्तं तदापद्यते तेषां वसतिपालानामिति / तथा जायपरिहाणेति या च परिहानि रुपधिमन्तरेण शीतादिबाधितस्य तद्वेषणप्रयतमानस्य वा सूत्रार्थस्य च भ्रंशस्तन्निमित्तकमपि समापद्यते प्रायश्चित्तं, तत्र सूत्रपौरुष्या अकरणे मासलघु, अर्थपौरुष्या अकरणे मासगुरु अथोपधिगवेषणलग्नदीर्घकालतः सूत्रं नाशयन्ति / तत श्चतुलपुअर्थनाशेन चतुर्गुरु, तथा तेषु वसतिपालेषु साधुष्वभिशय्यादिषु गतेषु आदेशानां प्राघूर्णकानां समागतानामध्वपरिश्रान्तानामविश्रामणे या अनागाढा भागाढा वा परितापनोपजायते, तनिषन्नमपि तेषामापद्यते प्रायश्चित्तं, / एक्कतरेत्ति तेषु वसतिपालेष्वभिशय्यादिगतेषु यो मुक्त एकतरो वसतिपालः स एको द्वौ वा बहवो वा यद्यागच्छन्ति प्राघूर्णकास्ते सर्वेऽपि नियमतो विश्रमयितव्या इति जिनप्रवचनमनुस्मरन् * बहून् प्राघूर्णकान् मागतान् विश्रामयन् यदनागाढमागाद वा परितापनामामोति तन्निमित्तकमपि समापतति तेषां प्रायश्चित्तं, साम्प्रतमस्या एव गाथायाः पश्चाई व्याख्यानयति / For Private and Personal Use Only