________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie श्री व्यव- हारपत्रस्य पीठिकाsनंतरः। // 54 // सूत्रार्थः, अधुना नियुक्तिविस्तरः / तृतीयो निकारणमि गुरुगा कजे लहया अपुच्छणे लहुओ।पडिसेहम्मि य लहुया गुरुगमणे होंति अणुग्धाया। [विभागः / | यदि निष्कारणे कारणाभावे अभिशप्यामभिनषेधिकी वा गच्छन्ति ततस्तेषां प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः अथ कार्ये समुत्पन्ने गच्छन्ति, तत्र प्रायश्चित्तं लघुकाश्चवारो लघुमासाः, कार्यमुपरिष्टात् भाष्यकृवर्णयिष्यति / यदि पुनः कार्ये समुत्पने अनापृच्छय गच्छन्ति, तदा अपृच्छने लघुको मासः आपृच्छायामपि कृतायां यदि स्थविरैः प्रतिषेधे गच्छन्ति / ततो लघुकाश्चत्वारो लघुमासाः / गुरु गमणे इत्यादि गुरुराचार्यः स यदि गच्छत्यभिशय्यामभिनषेधिकी वा ततस्तस्य भवत्यनुदाता गुरुकाश्चत्वारो गुरुमासाः / ये पुनर्वसतिपालाः समथों भिक्षवस्ते यदि गच्छन्ति / ततस्तेषामिमे दोषाःतेणादेसगिलाणे कामण इत्थी नपुंस मुच्छा वा / ऊणत्तोण दोसा, हवंति एए उ वसहीए॥ ये वसतिपालास्तैर्वसतेरूनत्वे हीनत्वे एते गाथा पूर्वार्धोक्ता दोषा भवन्ति / लद्यथा-स्तेनाश्चौरास्ते गताः साधवो वसतेरिति ज्ञात्वा बसतावापतेयुः आदेशाः प्राघूर्णकास्ते वा समागच्छेयुस्तेषां च समागतानामविश्रामणादिप्रसक्तिः समर्थसाध्वभावात् / गिलाणत्ति ग्लानो वा तेषामभावे व्याधिपीडितोऽसमाधिमाप्नुयात् / कामणत्ति दाहो वा प्रदीपनकेन बसतेभूयात् / तथा स्तोकाः साधवो वसतौ तिष्ठन्तीति खियो नपुंसका वा कामविहलाः समागच्छेयुः। तत्रात्मपरोभयसमुत्था दोषास्तथा मा कस्यापि पित्तादिवशतो भूयात् / तदेवं यतो वसतिपालानामिमे विनिर्गमे दोषास्तस्मात्तैरमिशय्यादिषु न गन्तव्यमित्येष द्वारगाथासंक्षेपार्थः / व्यासार्थ तु भाष्यकृदाह * // 54 // For Private and Personal Use Only