________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun yanmandir
पा.रा.म.HI
॥३६५॥
अथ भरतं प्रति हनुमत्प्रेषणमष्टाविंशत्युत्तरशततमे-अयोध्यां त्विति । अर्धमेकं वाक्यम् । समालोक्य समालोच्येत्यर्थः । आश्रमस्थस्य तदवलोकना टी.यु.कां. सम्भवात् । चिन्तयामास, कर्तव्यमिति शेषः॥१॥ जानीहीत्यर्धम् । नृपतिमन्दिरे जनः मात्रादिः ॥ २ ॥ गहनगोचरं वनचारिणम् ॥ ३॥ गुहाया निवेदनस्य प्रयोजनमाह-श्रुत्वा विति । विगतज्वरं मद्विश्वेषचिन्ताज्वररहितं यथा तथा भविष्यतीति क्रियाविशेषणम् । आत्मसमः हीनजातिमन ।
अयोध्यां तु समालोक्य चिन्तयामास राघवः । चिन्तयित्वा हनूमन्तमुवाच प्लवगोत्तमम् ॥१॥ जानीहि कच्चित् कुशली जनो नृपतिमन्दिरे ॥२॥ गृङ्गिबेरपुर प्राप्य गुहं गहनगोचरम् । निषादाधिपतिं ब्रूहि कुशलं वचनान्मम ॥३॥ श्रुत्वा तु मां कुशलिनमरोग विगतज्वरम् । भविष्यति गुहः प्रीतः स ममात्मसमः सखा ॥४॥ अयोध्याया श्च ते मार्ग प्रवृत्तिं भरतस्य च । निवेदयिष्यति प्रीतो निषादाधिपतिर्मुहः ॥५॥ भरतस्तु त्वया वाच्यः कुशलं वचनान्मम । सिद्धार्थ शंस मां तस्मै सभार्य सहलक्ष्मणम् ॥६॥ हरणं चापि वैदेह्या रावणेन बलीयसा ॥ ७ ॥ सुग्रीवेण च संसगै वालिनश्च वधं रणे। मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया ॥ ८॥ लवयित्वा महातोय मापगापतिमव्ययम् । उपयानं समुद्रस्य सागरस्य च दर्शनम् ॥ ९॥ यथा च कारितः सेतू रावणश्च यथा हतः।
वरदान महेन्द्रेण ब्रह्मणा वरुणेन च ॥ १०॥ विक्ष्य प्रेमातिशयेन गुहमिक्ष्वाकुकुलीनममन्यत ॥ ४॥ अयोध्यायाश्चेति । प्रवृत्तिं वृत्तान्तम् ॥५॥ भरतस्त्विति । सिद्धार्थ निव्यूडपितृवचनपरिपालन रूपप्रयोजनम् ॥६॥ हरणमित्यादिश्लोकपञ्चकमेकान्वयम् । रणे सुग्रीववालिनोर्युदे । वालिनो वधः इत्यर्थः । यथा चेति । महातोयम् अव्ययम्। अयोध्या स्विति । समालोक्य भरद्वाजाश्रमे विमानादवतरणसमय इति भावः । सुप्रविादीनां सम्पक शिष्टाचारप्रदर्शनाय सुहृष्टरूपतदाकारज्ञानाय च पूर्व हनुमत्प्रेषणम् । अत एव पामे पवम्यामेव विसृष्टहनुमत्प्रवेशसमये भरतवर्णनमेवं कृतम्-'अग्निप्रवेशस्योद्योगकाले चातुरनागमात् । न्यवेदयत्तदा तस्मै श्रीरामा गमनोत्सवम् ।।" इति ॥१॥२॥ गहन गोचरं वनगोचरम् । कुशलं मदीयं मम वचनाद्ब्रहीति सम्बन्धः ॥ ३-५॥ सिद्धार्थं निर्मूढपितृवचनपरिपालनरूपप्रयोजनम् ॥६॥७॥ यथा चाधिगता अस्वलितव्रता यथा दृष्टेत्यर्थः ॥ ८॥ उपयानं वानरसेनया समागमनम्, सागरस्य दिव्यरूपधारिणो दर्शनम् ॥२॥ वरदानमिति ।
CH०६५॥
For Private And Personal Use Only