________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
नोक्तपूर्वमिति । उक्तवचनस्य विपरीतं वचनान्तरं नोक्तपूर्वमित्यर्थः ॥ ११-१३॥ अकाल इति । पुष्पशबलाः पुष्पैर्नानावर्णाः । सलिलायुताः सलिलेला व्याप्ताः ॥ १४॥ ये निहताः सत्रणास्तेषां निर्बणत्वमनुगृह्णाति-सवणैरिति । प्रथमं वरदानात्पूर्व सत्रणैः, अथ निर्बणेः संवृत्तैः निर्बणीभूतैः गात्रैरुप
अकाले पुष्पशवलाः फलवन्तश्च पादपाः। भविष्यन्ति महेष्वास नद्यश्च सलिलायुताः ॥ १४॥ सवणैः प्रथम गात्रैः संवृत्तैर्निर्बणैः पुनः ॥ १५॥ ततः समुत्थिताः सर्वे सुरत्वेव हरिपुङ्गवाः । बभूवुर्वानराः सर्वे किमेतदिति विस्मिताः ॥ १६ ॥ ते सर्वे वानरास्तस्मै राघवायाभ्यवादयन् ॥१७॥ काकुत्स्थं परिपूर्णाथै दृष्ट्वा सर्वे सुरोत्तमाः। उचुस्ते प्रथमं स्तुत्वास्तवार्ह सहलक्ष्मणम् ॥१८॥ गच्छायोध्यामितो वीर विसर्जय च वानरान् ॥१९॥ मैथिली सान्त्वयस्वैनामनुरक्तां तपस्विनीम् । शत्रुघ्नं च महात्मानं मातृः सर्वाः परन्तप॥२०॥ भ्रातरं पश्य भरतं त्वच्छो काव्रतधारिणम् । अभिषेचय चात्मानं पौरान गत्वा प्रहर्षय ॥२१॥ एवमुक्त्वा तमामन्त्र्य रामं सौमित्रिणा सह । विमानैः सूर्यसङ्काशैहृष्टा जग्मुः सुरा दिवम् ॥२२॥अभिवाद्य च काकुत्स्थः सर्वास्तांत्रिदशोत्तमान् । लक्ष्मणेन सह भ्रात्रावासमाज्ञापयत्तदा ॥२३॥ ततस्तुसालक्ष्मणरामपालिता महाचमूहृष्टजना यशस्विनी । श्रिया ज्वलन्ती विरराज सर्वतो निशा प्रणीतेव हि शीतरश्मिना ॥२४॥ इत्या. श्रीमथुद्ध त्रयोविंशत्युत्तरशततमः सर्गः।।१२३॥ लक्षिताः, वानरा भविष्यन्तीत्यनुकृष्य योजना ॥१५॥तत इति । अत्र क्रियाभेदात्सर्वशब्दद्वयम् । किमेतदिति । युद्धे मृतस्य कथमेवं जीवन मित्यर्थः॥ १६--१८ ॥ रामानु०-त इति । राघवायाभ्यवादयन राघवमभ्यवादयन्नित्यर्थः । व्यत्ययेन द्वितीयायें चतुर्थी । द्वितीयायां विभीषणाभिषेकसीताप्राप्तिदेवता प्रस्थापनानि ॥ १७ ॥ गच्छायोध्यामित्यादिसायश्लोकद्वयमेकान्वयम् । त्वच्छोकात् त्वद्वियोगशोकात् ॥ १९--२२ ॥ अभिवाद्येति । वासमाज्ञापयत्, वानराणामिति शेषः ॥ २३ ॥ ततस्विति । प्रणीता प्रकाशिता ॥२४॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने
युद्धकाण्डव्याख्याने त्रयोविंशत्युत्तरशततमः सर्गः ॥ १२३॥ 17स्वस्थानसन्धानलोकान्तरगतानयनरूपाघटितार्थघटकत्वाद्वरस्य महत्वम् । द्वितीयायां विभीषणाभिषेका, तृतीयायां सीताप्राप्तिः देवताप्रस्थापनं च ॥११-२४॥
इति श्रीमहेन्धरतीर्थविरचिताया श्रीरामायणतत्वदीपिकारूपायां युद्धकाण्डव्याख्यायो अयोविंशत्युत्तरशततमः सर्गः ॥ १२३ ॥
For Private And Personal Use Only